मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४२, ऋक् ६

संहिता

अधा॑ नो विश्वसौभग॒ हिर॑ण्यवाशीमत्तम ।
धना॑नि सु॒षणा॑ कृधि ॥

पदपाठः

अध॑ । नः॒ । वि॒श्व॒ऽसौ॒भ॒ग॒ । हिर॑ण्यवाशीमत्ऽतम ।
धना॑नि । सु॒ऽसना॑ । कृ॒धि॒ ॥

सायणभाष्यम्

हे विश्वसौभग कृत्स्नधनयुक्त । यद्वा कृत्स्न सौभाग्ययुक्त हिरण्यवाशीमत्तमातिशयेन सुवर्णमयायुधवन् । पूषन् अध पूर्वोक्तास्मदीयप्रार्थनानंतरं नोऽस्माकं धनानि सुवर्णमणिमुक्तादीनि सुषणा सुष्ठु दानयुक्तानि कृधि । कुरु । अध । अथशब्दे धत्वं छांदसम् । निपातस्य चेति संहितायां दीर्घत्वम् । विश्वसौभग । सुभगान्मंत्र इत्युद्गात्रादिषु पाठाद्भावेऽञ् (पा ५-१-१२९) हृद्भगसिंध्वंते पूर्वपदस्य च (पा ७-३-१९) इत्युत्तरपदवृद्धौ प्राप्तायां सत्यां सर्वविधीनां छंदसि विकल्पितत्वादुत्तरपदवृद्धिर्न भवतीति वृत्तावुक्तम् । विश्वानि सौभगानि यस्यासौ विश्वसौभगः । आमंत्रितनिघातः । हिरण्यवाशीमत्तम । हिरण्यमयी वाशी । तदेषामस्तीति हिरण्यवाशीमंतः । अतिशयेन हिरण्यवाशीमान् हिरण्यवाशीमत्तमः । आमंत्रितनिघातः । सुषणा । वन षण संभक्तौ । सुखेन संभज्यंत इति सुषणानि । ईषद्दुः सुष्वितिखल् । शेश्छंदसीति शेर्लोपः । लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वं कृधि । डुकृञ् करणे । श्रुशृणुपृकृवृभ्यश्छंदसीति हेर्धिरादेशः । बहुलं छंदसीति विकरणस्य लुक् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५