मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४२, ऋक् ७

संहिता

अति॑ नः स॒श्चतो॑ नय सु॒गा नः॑ सु॒पथा॑ कृणु ।
पूष॑न्नि॒ह क्रतुं॑ विदः ॥

पदपाठः

अति॑ । नः॒ । स॒श्चतः॑ । न॒य॒ । सु॒ऽगा । नः॒ । सु॒ऽपथा॑ । कृ॒णु॒ ।
पूष॑न् । इ॒ह । क्रतु॑म् । वि॒दः॒ ॥

सायणभाष्यम्

सश्चतोऽस्मद्बाधनाय प्राप्नुवतः शत्रून्नोऽति अस्मानतिक्रम्य नय । अन्यत्र प्रापय । नोऽस्मान् सुगा सुष्ठु गंतुं शक्येन सुपथा शोभनमार्गेण कृणु । गंतृन्कुरु । हे पूषन् इहाध्वनि क्रतुं प्रज्ञानमस्मद्रक्षणरूपं विदः जानीहि । सश्चतः । ग्लुन्च षस्ज गतावित्यत्र सश्चिमप्येके पठंतीति धातुवृत्तावुक्तम् । अस्माल्लटः शतृ । बहुलं छंदसीति शपो लुक् । प्रत्ययस्वरेण शतुरुदात्तत्वम् । शतुरनुम इति विभक्त्युदात्ताभावश्छांदसः । सुगा । सुष्ठु गच्छंत्यत्रेति सुगः । सुदुरोरधिकरण इति गमेर्डप्रत्ययः । सुपां सुलुगिति तृतीयाया आकारः । सुपथा । शोभनेन पथा । न पूजनात् (पा ५-४-६९) इति समासांतप्रतिषेधः । परादिश्छंदसि बहुलमित्युत्तरपदाद्युदात्तत्वम् । क्रत्वादयश्चेत्युत्तरपदाद्युदात्तत्वं न भवति । अबहुव्रीहित्वात् । तत्र हि बहुव्रीहाविति वर्तते । कृणु कृवि हिंसाकरणयोः । धिन्विकृण्व्योरच्चेत्युप्रत्ययः । उतश्च प्रत्ययादिति हेर्लुक् । विदः । विदज्ञाने । लेट्यडागमः । इतश्च लोप इतीकारलोपः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५