मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४३, ऋक् ७

संहिता

अ॒स्मे सो॑म॒ श्रिय॒मधि॒ नि धे॑हि श॒तस्य॑ नृ॒णाम् ।
महि॒ श्रव॑स्तुविनृ॒म्णम् ॥

पदपाठः

अ॒स्मे इति॑ । सो॒म॒ । श्रिय॑म् । अधि॑ । नि । धे॒हि॒ । श॒तस्य॑ । नृ॒णाम् ।
महि॑ । श्रवः॑ । तु॒वि॒ऽनृ॒म्णम् ॥

सायणभाष्यम्

हे सोम देव नृणां पुरुषाणां शतस्य पर्याप्तां श्रियमस्मे अस्मास्वधि नि धेहि । आधिक्येन स्थापय । तथा महि महत् तुविनृम्णं प्रभूतबलयुक्तं श्रवोऽन्नमधि नि धेहि ॥ अस्मे सुपां सुलुगिति सप्तम्याः शे आदेशः । नृणाम् । नृ च (पा ६-४-६) इति दीर्घप्रतिषेधः । नामन्यतरस्यामिति नाम उदात्तत्वम् । महीत्यादयो गताः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७