मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५०, ऋक् २

संहिता

अप॒ त्ये ता॒यवो॑ यथा॒ नक्ष॑त्रा यन्त्य॒क्तुभि॑ः ।
सूरा॑य वि॒श्वच॑क्षसे ॥

पदपाठः

अप॑ । त्ये । ता॒यवः॑ । य॒था॒ । नक्ष॑त्रा । य॒न्ति॒ । अ॒क्तुऽभिः॑ ।
सूरा॑य । वि॒श्वऽच॑क्षसे ॥

सायणभाष्यम्

त्ये तायवो यथा प्रसिद्धास्तस्करा इव नक्षत्रा नक्षत्राणि देवगृहरूपाणि । देवगृहा वै नक्षत्राणि । तै ब्रा १ ५ २ ६ । इति श्रुत्यंतरात् । यद्वा । इह लोके कर्मानुष्ठाय ये स्वर्गं प्राप्नुवंति ते नक्षत्र रूपेण दृश्यंते । तथा च श्रूयते । यो वा इह यजतेऽमुं स लोकं नक्षते तन्नक्षत्राणां नक्षत्रत्वं । तै ब्रा १-५-२-५ । इति । यद्वा । तेषां सुकृतिनां ज्योतींषि नक्षत्राण्युच्यंते । सुकृतां वा एतानि ज्योतींषि यन्नक्षत्राणि । तै सं ५-४-१-३ । इत्याम्नानात् । यास्कस्त्वाह । नक्षत्राणि नक्षतेर्गतिकर्मणो नेमानि क्षत्राणीति च ब्राह्मणं । नि ३-२० । इति तथानिधानि नक्षत्राण्यक्तुभी रात्रिभिः सहाप यंति । अपगच्छंति । विश्वचक्षसे विश्वस्य सर्वस्य प्रकाशकस्य सूराय सूर्यस्यागमनं दृष्ट्वेति शेषः । तस्करा नक्षत्राणि च रात्रिभिः सह सूर्य आगमिष्यतीति भीत्या पलायंत इत्यर्थः । तायुरिति स्तेननाम तायुस्तस्कर इति तन्नामसु पाठात् । आक्तुरिति रात्रिनाम । शर्वर्यक्तुरिति तत्र पाठात् । यथा । यथेति पादांत इति सर्वानुदात्तत्वं । नक्षत्रा । नक्ष गतौ । आमिनक्षियजिबंधिपतिभ्योऽत्रन् । उ ३-१०५ । इत्यत्रन्प्रत्ययः । नित्त्वादाद्युदात्तत्वं । नभ्राण्नपादित्यत्र वृत्तौ त्वेवमुक्तं । न क्षरति न क्षीयत इति वा नक्षत्रं । क्षीयतेः क्षरतेर्वा नक्षत्रमिति निपात्यत इति । शेश्छंदसि बहुलमिति शेर्लोपः । यंति । इण् गतौ । इणो यणिति यणादेशः । सूराय विश्वचक्षसे । विश्वं चष्टे प्रकाशयतीति विश्वचक्षाः । चक्षेर्बहुलं शिच्च । उ ४-२३२ । इत्यसुन्प्रत्ययः । शित्त्वेन सार्वधातुकत्वात् । ख्याञादेशाभावः । उभयत्र षष्ठ्यर्थे चतुर्थी वक्तव्या । म २-३-६२-१ । इति चतुर्थी ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः