मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५०, ऋक् ९

संहिता

अयु॑क्त स॒प्त शु॒न्ध्युव॒ः सूरो॒ रथ॑स्य न॒प्त्य॑ः ।
ताभि॑र्याति॒ स्वयु॑क्तिभिः ॥

पदपाठः

अयु॑क्त । स॒प्त । शु॒न्ध्युवः॑ । सूरः॑ । रथ॑स्य । न॒प्त्यः॑ ।
ताभिः॑ । या॒ति॒ । स्वयु॑क्तिऽभिः ॥

सायणभाष्यम्

सूरः सर्वस्य प्रेरकः सूर्यः शुंध्युवः शोधिका अश्वस्त्रियः वादृशीः सप्त सप्तसंख्याका अयुक्त । स्वरथे योजितवान् । कीदृश्यः । रथस्य नप्त्यो न पातयित्र्यः याभिर्युक्ताभी रथो याति न पतति तादृशीभिंत्यर्थः । एवं भूताभिस्ताभिरश्वस्त्रीभिः स्वयुक्तिभिः स्वकीययोजनेन रथे संबद्धाभिर्याति । यज्ञगृहं प्रत्यागच्छति । अतस्तस्मै हविर्दातव्यमिति वाक्यशेषः ॥ अयुक्त । युजिर् योगे । स्वरितेत्त्वात्कर्त्रभिप्राय आत्मनेपदम् । लुङि च्लेः सिच् । एकाच इतीट् प्रतिषेधः । लिङ् सिचावात्मनेपदेषु (पा १-२-११) इति सिचः कित्त्वाल्लघूपधगुणाभावः । झलो झलीति सिचः सकारलोपः । चोः कुरिति कुत्वम् । शुंध्युवः । शुन्ध विशुद्धौ । यजिमनिशुंधिदसिजनिभ्यो युः (उ ३-२०) इति युप्रत्ययः । शसि तन्वादीनां छंदसि बहुलमुपसंख्यानम् । पा ६-४-७७-१ । इत्युवङादेशः । सूरः । षू प्रेरणे । सुसूधागृधिभ्यः क्रन् (उ २-२४) इति क्रन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । नप्त्यः । न पातयतीत्यर्थेनप्तृनेष्टृ (उ २-९६) इत्यादिनोणादिषु नप्तृशब्दस्तृजंतो निपातितः । यन्नेभ्यो ङीबिति ङीप् । यणादेश उदात्तयणो हल्पूर्वादिति ङीप उदात्तत्वम् । सुपां सुपो भवंतीति शसो जसादेशः । ततो यणादेश उदात्तस्वरितयोर्यण इति स्वरितत्वम् । रेफलोपश्छांदसः । उक्तं च । द्वौ चापरौ वर्णविकारनाशौ । का ६-३-१०९ इति । शाखांतरे तु नप्त्र्य इत्येव पठ्यते । स्वयुक्तिभिः । स्वकीर्या सूर्यसंबंधि न्यो युक यो योजनानि यासाम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः