मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५०, ऋक् ११

संहिता

उ॒द्यन्न॒द्य मि॑त्रमह आ॒रोह॒न्नुत्त॑रां॒ दिव॑म् ।
हृ॒द्रो॒गं मम॑ सूर्य हरि॒माणं॑ च नाशय ॥

पदपाठः

उ॒त्ऽयन् । अ॒द्य । मि॒त्र॒ऽम॒हः॒ । आ॒ऽरोह॑न् । उत्ऽत॑राम् । दिव॑म् ।
हृ॒त्ऽरो॒गम् । मम॑ । सू॒र्य॒ । ह॒रि॒माण॑म् । च॒ । ना॒श॒य॒ ॥

सायणभाष्यम्

उद्यन्नित्ययं तृचो रोगशांत्यर्थः । तथा चानुक्रमण्यामुक्तम् । अंत्यस्तृचो रोगघ्न उपनिषदिति । युक्तं चैतत् । यस्मादनेन तृचेन त्वग्दोषशांतये प्रस्कण्वः सूर्यमस्तौत् तेन तृचेन स्तुतः सूर्यस्तमृषिं रोगान्निरगमयत् तस्मा दिदानीमपि रोगशांतयेऽनेन तृचेन सूर्य उपासनीयः । तदुक्तं शौनकेन । उद्यन्नद्येति मंत्रोऽयं सौरः पापप्रणाशनः । रोगघ्नश्च विषघ्नश्च भुक्तिमुक्ति फलप्रद इति ॥

हे सूर्य सर्वस्य प्रेरक मित्रमहः सर्वेषामनुकूलदीप्तियुक्त आद्यास्मिन्काल उद्यन् उदयं गच्छन् उत्तरामुद्गततरां दिवमंतरिक्षमारोहन् आभिमुख्येन प्राप्नुवन् । यद्वा । दिवमंतरिक्षमुत्तरामारोहन् उत्कर्षेण प्राप्नुवन् । एवंविधस्त्वं मम हृद्रोगं हृदयगतमांतरं रोगं हरिमाणं शरीरगतकांतिहरणशीलं बाह्यं रोगम् । यद्वा । शरीरगतं हरिद्वर्णं रोगप्राप्तं वैवर्ण्यमित्यर्थः । तदुभयमपि नाशय । मां स्तोतारमुभयविधाद्रोगान्मोचयेत्यर्थः ॥ मित्रमहः । मित्रमनुकूलं महस्तेजो यस्यासौ । आमंत्रितनिघातः । उत्तराम् । उदित्यनेनोपसर्गेण स्वसंसृष्टधात्वर्थो लक्ष्यते । तस्मादातिशायनिकस्तरप्प्रत्ययः । प्रथमपक्षेंतरिक्षविशेषत्वेन द्रव्यप्रकर्षप्रतीतेरां न भवति । द्वितीये त्वारोहण क्रियायाः प्रकर्षो गम्यत इति किमेत्तिङव्ययघादाम्बद्रव्यप्रकर्षे (पा ५-४-११) इति आमुः । प्रथमपक्षे टाप्तरपोः पित्त्वादनुदात्तत्व उपसर्गस्वर एव शिष्यते । द्वितीये त्वाम्प्रत्ययस्य सति शिष्टत्वात्तस्यैव स्वरे प्राप्ते व्यत्ययेनाद्युदात्तत्वम् । वृषादिर्वा द्रष्टव्यः । स ह्याकृतिगणः । हृद्रोगम् । वा शोकष्यञ् रोगेषु (पा ६-३-५१) इति हृदयशब्दस्य हृदादेशः । मम । युष्मदस्मदोर्ङसीत्याद्युदात्तत्वम् । हरिमाणम् । हृञ् हरणे । जनिहृभ्यामिमनिन् (उ ४-१४८) इत्यौणादिक इमनिन्प्रत्ययः । व्यत्ययेनांतोदात्तत्वम् । यद्वा । हरिच्छब्दस्य वर्णवाचित्वाद्वर्णदृढादिभ्यः ष्यञ् च (पा ५-१-१२३) इति चकारादिमनिन्प्रत्ययः । इष्ठेमेयःस्वित्यनुवृत्तौ टीरिति टलोपः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः