मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७९, ऋक् ४

संहिता

अग्ने॒ वाज॑स्य॒ गोम॑त॒ ईशा॑नः सहसो यहो ।
अ॒स्मे धे॑हि जातवेदो॒ महि॒ श्रवः॑ ॥

पदपाठः

अग्ने॑ । वाज॑स्य । गोऽम॑तः । ईशा॑नः । स॒ह॒सः॒ । य॒हो॒ इति॑ ।
अ॒स्मे इति॑ । धे॒हि॒ । जा॒त॒ऽवे॒दः॒ । महि॑ । श्रवः॑ ॥

सायणभाष्यम्

प्रातरनुवाकस्याग्नेये क्रतावौष्णिहे छंदस्याश्विनशस्त्रे चाग्ने वाजस्येत्याद्यास्तिस्र ऋचः । सूत्रितं च । अग्ने वाजस्येति तिस्रः पुरु त्वा त्वामग्ने (आ ४-१३) इति ॥

हे सहसो यहो बलस्य पुत्राग्ने गोमतो बहुभिर्गोभिर्युक्तस्य वाजस्यान्नस्येशान ईश्वरस्त्वमसि । अतोऽस्मे अस्मासु हे जातवेदो जातधन जातानां वेदितर्वाग्ने महि प्रभूतं श्रवोऽन्नं धेहि । स्थापय ॥ सहसो यहो । परांगवद्भावादामंत्रितस्य चेति षष्ठ्यामंत्रितसमुदायो निहन्यते । अस्मे । सुपां सुलुगिति सप्तम्याः शेआदेशः ॥ ४ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७