अधि॒ सानौ॒ नि जि॑घ्नते॒ वज्रे॑ण श॒तप॑र्वणा ।
म॒न्दा॒न इन्द्रो॒ अन्ध॑स॒ः सखि॑भ्यो गा॒तुमि॑च्छ॒त्यर्च॒न्ननु॑ स्व॒राज्य॑म् ॥
अधि॑ । सानौ॑ । नि । जि॒घ्न॒ते॒ । वज्रे॑ण । श॒तऽप॑र्वणा ।
म॒न्दा॒नः । इन्द्रः॑ । अन्ध॑सः । सखि॑ऽभ्यः । गा॒तुम् । इ॒च्छ॒ति॒ । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥
इंद्रः शतपर्वणा शतसंख्याकधाराभिर्युक्तेन वज्रेण सानावधि नि जिघ्नते । अधिः सप्तम्यर्थानुवादी । समुच्छ्रिते वृत्रस्य कपोलादौ स्थाने नितरां हिनस्ति । स चेंद्रो मंदानो मंदमानः स्तूयमानः सन् सखिभ्यः समानख्यानेभ्यः स्तोत्रभ्योऽंधसोऽन्नस्य गातुं मार्गमुपायमिच्छति । अन्यत्पूर्ववत् ॥ मंदानः । मदि स्तुतौ । कर्मणि शानचि यक् । छंदस्यु भयथेति शानच आर्धधातुकत्वादतोलोपयलोपौ । अनुदात्तेतः परत्वात् शानचो लसार्वधातुकानुदात्तत्वे सति यक एवोदात्तत्वम् । अनुदात्ते शानचि तस्य यको लोपे सत्युदात्तनिवृत्तिस्वरेण शानच उदात्तत्वं प्राप्नोति । एवं तर्हि शानच आर्धधातुकत्वादेव लसार्वधातुकानुदात्तत्वाभावे चित्स्वर एवावशिष्यते ॥ ६ ॥