मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८०, ऋक् ९

संहिता

स॒हस्रं॑ सा॒कम॑र्चत॒ परि॑ ष्टोभत विंश॒तिः ।
श॒तैन॒मन्व॑नोनवु॒रिन्द्रा॑य॒ ब्रह्मोद्य॑त॒मर्च॒न्ननु॑ स्व॒राज्य॑म् ॥

पदपाठः

स॒हस्र॑म् । सा॒कम् । अ॒र्च॒त॒ । परि॑ । स्तो॒भ॒त॒ । विं॒श॒तिः ।
श॒ता । ए॒न॒म् । अनु॑ । अ॒नो॒न॒वुः॒ । इन्द्रा॑य । ब्रह्म॑ । उत्ऽय॑तम् । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥

सायणभाष्यम्

सहस्रं सहस्रसंख्याका मनुष्याः साकमर्चत । एनमिंद्र युगपदेवापूजयन् । तथा विंशतिः । षोडशर्त्विजो यजमानः पत्नी च सदस्यः शमिता चेति विंशतिसंख्याकाः । तेषां या विंशतिसंख्या सा परि ष्वोभत । परितः सर्वतोऽस्तौत् । तथा च शता शतसंख्याका ऋषय एनमिंद्रमन्वनोनवुः । पुनःपुनरस्तुवन् । अस्मा एवेंद्राय ब्रह्म हविर्लक्षणमन्नमुद्यतम् । दातुमूर्ध्वं धृतम् । अत एवंविध इंद्रो वृत्रमहन्नित्यर्थः । अन्यत्पूर्ववत् ॥ परि ष्टोभत । स्तोभतिः स्तुतिकर्मा । उपसर्गात्सुनोतीति षत्वम् । अनोनुवुः । णु स्तुतौ । अस्माद्यङ् लुगंताल्लुङि सिजभ्यस्तविदिभ्यश्चेति झेरुसादेशः । उद्यतम् । यम उपरमे । उत्पूर्वादस्मत्कर्मणि निष्ठा । अनुदात्तोपदेशेत्यादिनानुनासिकलोपः । गतिरनंतर इति गतेः प्रकृतिस्वरत्वं ॥ ९ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०