मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८०, ऋक् ११

संहिता

इ॒मे चि॒त्तव॑ म॒न्यवे॒ वेपे॑ते भि॒यसा॑ म॒ही ।
यदि॑न्द्र वज्रि॒न्नोज॑सा वृ॒त्रं म॒रुत्वाँ॒ अव॑धी॒रर्च॒न्ननु॑ स्व॒राज्य॑म् ॥

पदपाठः

इ॒मे । चि॒त् । तव॑ । म॒न्यवे॑ । वेपे॑ते॒ इति॑ । भि॒यसा॑ । म॒ही इति॑ ।
यत् । इ॒न्द्र॒ । व॒ज्रि॒न् । ओज॑सा । वृ॒त्रम् । म॒रुत्वा॑न् । अव॑धीः । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥

सायणभाष्यम्

मही महत्याविमे द्यावापृथिव्यावपि हे इंद्र तव मन्यवे त्वदीयकोपाद्भियसा भीत्या वेपेते । कंपेते । हे वज्रिन्वज्रवन्निंद्र मरुत्वान्मरुद्भिर्युक्तस्त्वमोजसा बलेन यद्यदा वृत्रमवधीः । तदानीं द्यावापृथिव्यावपि भयेनाकंपिषातामित्यर्थः ॥ वेपेते । टुवेपृ कंपने । भियसा । ञिभी भये । औणादिकः कसिप्रत्ययः ॥ ११ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१