मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८०, ऋक् १४

संहिता

अ॒भि॒ष्ट॒ने ते॑ अद्रिवो॒ यत्स्था जग॑च्च रेजते ।
त्वष्टा॑ चि॒त्तव॑ म॒न्यव॒ इन्द्र॑ वेवि॒ज्यते॑ भि॒यार्च॒न्ननु॑ स्व॒राज्य॑म् ॥

पदपाठः

अ॒भि॒ऽस्त॒ने । ते॒ । अ॒द्रि॒ऽवः॒ । यत् । स्थाः । जग॑त् । च॒ । रे॒ज॒ते॒ ।
त्वष्टा॑ । चि॒त् । तव॑ । म॒न्यवे॑ । इन्द्र॑ । वे॒वि॒ज्यते॑ । भि॒या । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥

सायणभाष्यम्

हे अद्रिवो वज्रवन्निंद्र ते तवाभिष्टने सिंहनादे सति स्थाः स्थावरं जगज्जंदगमं च यदस्ति तदुभयं रेजते । कंपते । त्वष्टा चित् वज्रनिर्माता त्वष्टा च तव मन्यवे त्वदीयाय कोपाय भिया भीत्या वेविज्यते । भृशं कंपते । अन्यत्समानं ॥ स्थाः । तिष्ठतेः क्विप्चेति क्विप् । वेविज्यते । ओविजी भयचलनयोः । अस्मात्क्रियासमभिहारे यङ् । सन्यङोरिति द्विर्भावः । अदुपदेशाल्लसार्वधातुकानुदात्वत्वे यङ एव स्वरः शिष्यते । इंद्रेत्यस्य पादादौ वर्तमानस्यामंत्रितं पूर्वमविद्यमानवदित्यविद्यमानवत्त्वे सत्यस्य पादादित्वादपादादाविति पर्युदासान्निघाताभावः ॥ १४ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१