मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८२, ऋक् १

संहिता

उपो॒ षु शृ॑णु॒ही गिरो॒ मघ॑व॒न्मात॑था इव ।
य॒दा नः॑ सू॒नृता॑वत॒ः कर॒ आद॒र्थया॑स॒ इद्योजा॒ न्वि॑न्द्र ते॒ हरी॑ ॥

पदपाठः

उपो॒ इति॑ । सु । शृ॒णु॒हि । गिरः॑ । मघ॑ऽवन् । मा । अत॑थाःऽइव ।
य॒दा । नः॒ । सू॒नृता॑ऽवतः । करः॑ । आत् । अ॒र्थया॑से । इत् । योज॑ । नु । इ॒न्द्र॒ । ते॒ । हरी॒ इति॑ ॥

सायणभाष्यम्

उपो ष्विति षड्बचं नवमं सूक्तं गोतमस्यार्षमैंद्रम् । अंत्या जगती । आद्याः पंक्तयः । अनुक्रांतं च । उपोषु षट् जगत्यंतमिति ॥ सूक्तविनियोगो लैंगिकः ॥ षोडशिशस्त्र आद्या सुसंदृशमित्यादिके द्वे ऋचौ च विनियुज्यते । अथ षोडशीति खंडे सूत्रितम् । उपो षु शृणुही गिरः सुसंदृशं त्वा वयं मघवन्नित्येका द्वे च पंक्ती । (आ । ६-२) इति

हे मघवन् धनवन्निंद्र गिरोऽस्मदीयाः स्तुतीरुपो उपैव सु शृणुहि । उपगत्य सम्यक् शृणु । अतथा इव पूर्वं यथाविधस्त्वं तद्विपरीतो मा भूः । अस्मासु पूर्वं यथानुग्रहबुद्धियुक्तस्तथाविध एव भवेत्यर्थः । अपि च नोऽस्मान् सूनृतावतः । प्रियसत्यात्मिका वाक् सूनृता । तया स्तुतिरूपया वाचा युक्तान्यदा करः करोषि आदनंतरं त्वमप्यर्थयास इत् । अर्थयस एव । याचयस एव । न तूदास्से । अस्माभिः प्रयुक्ताः स्तुतीस्त्वमपि स्वीकरोषीत्यर्थः । अतो हे इंद्र ते हरी त्वदीयावश्वौनु क्षिप्रं योज । रथे योजय ॥ शृणुहि । उतश्च प्रत्ययाच्छंदसि वा वचनमिति वचनादुतश्च प्रत्ययादिति हेर्लुगभावः । अतथा इव । तथेवाचरति तथाति । सर्वप्रातिपदिकेभ्य इत्येके । का ३-१-११-२ । इति क्विप् । तथातेरप्रत्ययः । न तथा इव अतथा इव । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । करः । डुकृञ् करणे । लुङि कृमृदृरुहिभ्यश्छंदसीति च्लेरङादेशः । नन्वङः सति शिष्टत्वात् चित्स्वरेणांतोदात्तेन भवितव्यम् । तर्हि लङिव्यत्ययेन शप् । ननु डुकृञ् करण इति भूवादौ पठ्यते । अतो व्यत्ययः कस्मात् क्रियत इति चेत् नैवम् । यस्मादस्य धातोस्तत्र पाठोऽनार्षः । तथा हि । कः करत्करतीत्यत्र यदाहतुर्न्यासकारहरदत्तौ व्यत्ययेन शबिति तस्मादस्य धातोर्भूवादौ पाठो नास्तीति गम्यते । किंच यद्ययं पठ्येत करदित्येवमादिरूपसिद्ध्यर्थं कृमृदृरुहिभ्यश्छंदसीति करोतेरङ् विधानमनर्थकं स्यात् । अस्माल्लङि शप्यस्य रूपस्य सिद्धिः । लङ् लुङोरर्थभेदाल्लुङ्येतद्रूपसिद्धये कर्तव्यमङ्विधानमिति चेन्न । छंदसि लुङ् लङ् लिट इति लुङादीनामेकत्र विधानेनार्थभेदाभावादित्यनेन प्रकारेणास्माभिर्धातुवृत्तावयं धातुर्निराकृतः । अतो व्यत्ययेनेति सिद्धम् । अर्थयासे । अर्थ याज्ञायाम् । चुरादिरात्मनेपदी । लेट्याडागमः । योज । युजिर् योगे । ण्यंताल्लोट छंदस्युभयथेति शप अर्धधातुकत्वाण्णेरनिटीति णिलोपः । द्व्यचोऽतस्तिङ इति संहितायां दीर्घत्वं ॥ १ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः