मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९२, ऋक् १४

संहिता

उषो॑ अ॒द्येह गो॑म॒त्यश्वा॑वति विभावरि ।
रे॒वद॒स्मे व्यु॑च्छ सूनृतावति ॥

पदपाठः

उषः॑ । अ॒द्य । इ॒ह । गो॒ऽम॒ति॒ । अश्व॑ऽवति । वि॒भा॒ऽव॒रि॒ ।
रे॒वत् । अ॒स्मे इति॑ । वि । उ॒च्छ॒ । सू॒नृ॒ता॒ऽव॒ति॒ ॥

सायणभाष्यम्

हे गोमत्यस्मभ्यं दातव्यैर्गोभिर्युक्ते तथाश्वावत्यश्वैर्युक्ते विभावरि विशिष्टप्रकाशोपेते सूनृतावति । प्रियसत्यात्मिका वाक् सूनृता । तादृश्या वाचा युक्ते एवंभूते हे उष उषोदेवतेऽद्येदानीं प्रभातसमय इहास्मिन्देशेऽस्मे अस्माकं रेवत् धनयुक्तं कर्म यथा भवति तथा व्युच्छ । नैशं तमो निवारय ॥ अश्वावति । मंत्रे सोमाश्चेंद्रियेति मतौ दीर्घत्वम् । पादादित्वादामंत्रितस्याष्टमिकनिघाताभावः । रेवत् । रयेर्मतौ बहुलम् । पा ६-१-३७-६ । इति संप्रसारणम् । छंद सीर इति मतुपो वत्वम् । रेशब्दाच्च मतुप उदात्तत्वं वक्तव्यम् । का ६-१-१७६-१ । इति मतुप उदात्तत्वम् । उच्छ । उच्छी विवासे । विवासो वर्जनं ॥ १४ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६