मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९२, ऋक् १६

संहिता

अश्वि॑ना व॒र्तिर॒स्मदा गोम॑द्दस्रा॒ हिर॑ण्यवत् ।
अ॒र्वाग्रथं॒ सम॑नसा॒ नि य॑च्छतम् ॥

पदपाठः

अश्वि॑ना । व॒र्तिः । अ॒स्मत् । आ । गोऽम॑त् । द॒स्रा॒ । हिर॑ण्यऽवत् ।
अ॒र्वाक् । रथ॑म् । सऽम॑नसा । नि । य॒च्छ॒त॒म् ॥

सायणभाष्यम्

प्रातरनुवाकस्याश्विने क्रतावौष्णिहे छंदस्यश्विना वर्तिरित्ययं तृचः । आश्विनशस्प्रे च । तथा च सूत्रितम् । अश्विना वर्तिरस्मदाश्विनावेह गच्छतमिति तृचौ (आ ४-१५) इति ॥

उषःसाहचर्याद्बुद्थिस्थावश्विनाविदमादिकेन तृचेन स्तूयेते । हे अश्विनाश्ववंतौ व्यापनशीलौ वा देवौ दस्रा शत्रूणामुपक्षपयितारौ अस्मदस्माकं वर्तिर्वर्तनहेतुभूतं गृहमा समंताद्गोमद्बहुभिर्गोभिर्युक्तम् । हिरण्यवद्धितरमणीयधनयुक्तं च यथा भवति तथा समनसा समानमनस्कौ संतौ युवां युष्मदीयं रथमर्वागर्वाचीनमस्मदीयगृहमभिमुखं नि यच्छतम् । आवर्तयतं ॥ अश्विना । सुपां सुलुगित्याकारः । वर्तिः । वर्ततेऽस्मिन्निति वर्तिर्गृहम् । औणादिक इसिप्रत्ययः । आस्मत् । सुपां सुलुगिति षष्ठ्या लुक् । समनसा । समानं मनो ययोस्तौ । समानस्य छंदसीति सभावः ॥ १६ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७