मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०५, ऋक् २

संहिता

अर्थ॒मिद्वा उ॑ अ॒र्थिन॒ आ जा॒या यु॑वते॒ पति॑म् ।
तु॒ञ्जाते॒ वृष्ण्यं॒ पयः॑ परि॒दाय॒ रसं॑ दुहे वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥

पदपाठः

अर्थ॑म् । इत् । वै । ऊं॒ इति॑ । अ॒र्थिनः॑ । आ । जा॒या । यु॒व॒ते॒ । पति॑म् ।
तु॒ञ्जाते॒ इति॑ । वृष्ण्य॑म् । पयः॑ । प॒रि॒ऽदाय॑ । रस॑म् । दु॒हे॒ । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥

सायणभाष्यम्

अर्थिनो धनमपेक्षमाणाः पुरुषा अर्थमिद्वै अपेक्षितं धनं प्राप्नुवंत्येव । नाहं प्राप्नोमि । उ इत्येतत्पादपूरणम् । अपि च जायान्यदीया भार्या पतिं स्वपतिमा युवते । आभिमुख्येन प्राप्नोति । मदीया तु मद्विरहाद्धतासीत् । अपि च संयुक्तौ तौ जायापती वृष्ण्यं वीर्यरूपं पय उदकं तुंजाते । प्रजननायान्योन्यसंघट्वनेन प्रेरयतः । तदनंतरं रसं पुरुषस्य सारभूतं वीर्यं परिदाय गर्भाशयेनादाय गर्भरूपेण धृत्वा दुहे । दुग्धे । पुत्ररूपेण जनयति । मन तु पुत्रोऽपि नोत्पद्यते । अत इदं मदीयं दुःखं हे द्यावापृथिव्यौ जानीतं ॥ उ । उञः पा १-१-१७ । इति शाकल्यस्य मतेन प्रगृह्यत्वात् प्लुतप्रगृह्या अचीति प्रकृतिभावः । युवते । यु मिश्रणे । व्यत्ययेनात्मनेपदम् । शब्लुकि प्राप्ते व्यत्ययेन शः । तुंजाते । तुजि पिजि हिंसाबलदाननिकेतनेषु । इदित्त्वान्नुम् । व्यत्ययेन श्नम् । श्नान्नलोपः । दुहे । दुह प्रपूरणे । लोपस्त आत्मनेपदेष्विति तलोपः ॥ २ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०