मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०५, ऋक् ७

संहिता

अ॒हं सो अ॑स्मि॒ यः पु॒रा सु॒ते वदा॑मि॒ कानि॑ चित् ।
तं मा॑ व्यन्त्या॒ध्यो॒३॒॑ वृको॒ न तृ॒ष्णजं॑ मृ॒गं वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥

पदपाठः

अ॒हम् । सः । अ॒स्मि॒ । यः । पु॒रा । सु॒ते । वदा॑मि । कानि॑ । चि॒त् ।
तम् । मा॒ । व्य॒न्ति॒ । आ॒ऽध्यः॑ । वृकः॑ । न । तृ॒ष्णऽज॑म् । मृ॒गम् । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥

सायणभाष्यम्

हे देवाः पुरा पूर्वस्मिन्काले सुते युष्मड्यागार्थं सोमेऽभिषुते कानिजित् कतिपयानि स्तोत्राणि योऽहं वदामि उक्तवानस्मि स एवापमस्मि स त्वस्यः कश्चित् । तस्मात्किमर्थं मा परित्यजथ । तं तादृशं मामाध्योऽभिलषितपुत्राड्यप्राप्त्या जनिता मानस्यो व्यथा व्यंति । भक्षयंति । तत्र दृष्टांतः । तृष्णजं जाततृष्णं पिपासंतमुदकं प्रति गच्छंतं मृगं वृको न । यथारण्यत्वा मध्ये मार्गं भक्षयति तद्वत् । अन्यत्पूर्ववत् ॥ व्यंति । वी गत्यादिषु । अदादित्याच्छपो लुक् । तन्वादीनां छंदसि बहुलमुपसंख्यानमिति बहुलवचनाद्यण् । आध्यः । अधीयते मनसि स्थाप्यत इत्याधिः । उपसर्गे घोः किः पा ३-२-९२ । अतो लोप इट चेत्याकारलोपः । जसादिषु छंदसि वावचनमिति जसि चेति गुणस्य विकल्पवादभावेयणादेशः । तृष्णजम् । तृष पिपासायाम् । स्वपित्रगोर्नजिण् । सा ३-२-१७२ । इति नजिङ् । पदकारस्त्वेवं मन्यते । अन्येष्वपि दृश्यत इति दृशिग्रहणस्य सर्वोपाधिव्यभिचारार्थत्वाक्केवलादपि जनेर्डप्रत्ययः । तृष्णा जाता यस्य । ज्यापोः संज्ञाभंडसोर्बहुलमिति ह्रस्वत्वं ॥ ७ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१