मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०५, ऋक् १३

संहिता

अग्ने॒ तव॒ त्यदु॒क्थ्यं॑ दे॒वेष्व॒स्त्याप्य॑म् ।
स नः॑ स॒त्तो म॑नु॒ष्वदा दे॒वान्य॑क्षि वि॒दुष्ट॑रो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥

पदपाठः

अग्ने॑ । तव॑ । त्यत् । उ॒क्थ्य॑म् । दे॒वेषु॑ । अ॒स्ति॒ । आप्य॑म् ।
सः । नः॒ । स॒त्तः । म॒नु॒ष्वत् । आ । दे॒वान् । य॒क्षि॒ । वि॒दुःऽत॑रः । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥

सायणभाष्यम्

हे अग्ने तवोक्थ्यं प्रशस्यं त्यत् श्रुतिप्रसिद्धमाप्यम् । आपिर्बंधुः । तस्यभावः । बांधवं देवेषु दानादिगुणयुक्तेष्टिंद्रादिष्वस्ति । विद्यते । तस्मात्स तादृशो विदुष्वरो विद्वत्तरस्त्वं नोऽस्माकं यज्ञे सत्तो निषण्णः सन्देवांस्तानिंद्रादीना शास्त्रमर्यादया यक्षि । यज । हविर्भिः पूजय । तत्र दृष्टांतः । मनुष्वत् । यथा मनूनां यज्ञे तद्वत् । अन्यत्पूर्ववत् ॥ आप्यम् । आप्लृ व्याप्तौ । अस्माण्ण्यंतादच इरितीप्रत्ययः । ब्राह्मणादित्वात् ष्यञ् । सत्तः । नसत्तनिषत्तेति निपातनान्निष्ठानत्वाभावः । छांदसो निशब्द लोपो द्रष्टव्यः । मनुष्टत् । मनेरौणादिक उसिप्रत्ययः । तत्र तस्येवेति षष्ठ्यर्थे वतिः । नभोऽंगिरोमनुषां वत्युपसंख्यानम् । पा १-४-१८-३ । इति भत्वेन पदत्वाभावाद्रुत्वाद्यभावः । यक्षि । बहुलं छंदसीति शपो लुक् । व्रश्जादिषत्वे कुत्वम् । विदुष्वरः । विद्वःशब्दात्तरप्ययस्मयादित्वेन भत्वाद्वसोः संप्रसारणमिति संप्रसारणम् । शासिवसिघसीनां चेति षत्वं ॥ १३ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२