मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०५, ऋक् १६

संहिता

अ॒सौ यः पन्था॑ आदि॒त्यो दि॒वि प्र॒वाच्यं॑ कृ॒तः ।
न स दे॑वा अति॒क्रमे॒ तं म॑र्तासो॒ न प॑श्यथ वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥

पदपाठः

अ॒सौ । यः । पन्थाः॑ । आ॒दि॒त्यः । दि॒वि । प्र॒ऽवाच्य॑म् । कृ॒तः ।
न । सः । दे॒वाः॒ । अ॒ति॒ऽक्रमे॑ । तम् । म॒र्ता॒सः॒ । न । प॒श्य॒थ॒ । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥

सायणभाष्यम्

पंथाः सततगामी । यद्वा । ब्रह्मलोकं गच्छतामुपासकानां मार्गभूतः । सूर्यद्वारेण ते विरजाः प्रयांति । मु उ १-२-११ । इति श्रुतेः । एवंभूतो योऽसावादित्यो दिविद्युलोके प्रवाच्यं प्रकर्षेण वचनं यथा भवति तथा कृतो निर्मितः । यथा सर्वैः प्राणिभिर्दृश्यते तथा वर्तमान इत्यर्थः । हे देवाः सोऽयमादित्यो युष्माभिरपि नातिक्रमे । अतिक्रमितुं न शक्यः । युष्मज्जीवनस्य तदायत्तत्वात् । सति हि सूर्ये वसंतादयः काला निष्पद्यंते । कालेषु च यागाः क्रियंते । यागेषु च सत्सु भवतां जीवनम् । अतो युष्माभिरप्यसौ नातिक्रमितव्यः । एवं च सति हे मर्तासः पापकृतो मनुष्याः तं महानुभावं सूर्यं न पश्यथ । सूर्यं न जानीथः । एतच्च कूपे पातयित्वा निर्गतावेकतद्वितौ प्रति निंदनं ॥ अहमेव मंत्रद्रष्टा तं सूर्यं जानामि पापकृतौ युवां न जानीथ इति ॥ पंथाः । पत्लृ गतौ । पतेस्थ चेतीनिप्रत्ययः । पथिमथ्यृभुक्षामादित्यात्वम् । इतोऽत्सर्वनामस्थाने (पा ७-१-८६) इत्यत्वमिकारस्य । थो न्थः (पा ७-१-८७) पथिमथोः सर्वनामस्थान इत्याद्युदात्तत्वम् । प्रवाच्यम् । वक्तेर्ण्यंतादचो यदिति भावे यत् । यतोऽनाव इत्याद्युदात्तत्वम् । अतिक्रमे । क्रमु पादविक्षेपे । कृत्यार्थे तवैकेनिति केन्प्रत्ययः । नित्त्वादाद्युदात्तत्वं ॥ १६ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३