मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०५, ऋक् १८

संहिता

अ॒रु॒णो मा॑ स॒कृद्वृकः॑ प॒था यन्तं॑ द॒दर्श॒ हि ।
उज्जि॑हीते नि॒चाय्या॒ तष्टे॑व पृष्ट्याम॒यी वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥

पदपाठः

अ॒रु॒णः । मा॒ । स॒कृत् । वृकः॑ । प॒था । यन्त॑म् । द॒दर्श॑ । हि ।
उत् । जि॒ही॒ते॒ । नि॒ऽचाय्य॑ । तष्टा॑ऽइव । पृ॒ष्टि॒ऽआ॒म॒यी । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥

सायणभाष्यम्

अरुणवर्णो लोहितवर्णो वृकोऽरण्यश्वा सकृदेकवारं पथा यंतं मार्गेण गच्छंतं मां ददर्श हि । दृष्टवान् । हि पादपूरणम् । निचाय्य दृष्ट्वा च मां जिघृक्षुः सन् उज्जिहीते । उद्गच्छति स्म । तत्र दृष्टांतः । तष्टेव पृष्ट्यामयी । यथा तक्षणजनितपृष्ठक्लेशस्तष्टा वर्धकिस्तदपनोदनायोर्ध्वाभिमुखो भवति तद्वत् । हे द्यावापृथिव्या मदीयमिदं दुःखं वित्तम् । जानीतम् । यद्वा वृक इति विवृतज्योतिष्कश्चंद्रमा उच्यते । अरुण आरोचमानः कृत्स्नस्य जगतः प्रकाशकः मासकृत् मासार्धमासर्त्वयनसंवत्सरादीन्कालविशेषान्कुर्वन् । तिथिविभागज्ञानस्य चंद्रगत्यधीनत्वात् । स चंद्रमा आकाशमार्गे यंतं गच्छंतं नक्षत्रगणं ददर्श । हिरवधारणे । नक्षत्रगणमेव ददर्श न कूपपतितं मावित्यनादरो द्योत्यते । यदि मां पश्येत् उद्धरेत्कूपात् । निचाय्य नक्षत्रगणं दृष्ट्वा चोज्जिहीते । येन नक्षत्रेण संयुज्यते तेन सहोद्गच्छति । न मामभिगच्छतीत्यर्थः । अन्यत्सूर्ववत् ॥ अत्र मासकृदिति यास्क एकं पदं मन्यते शाकल्यस्तु पदद्वयम् । तस्मिन्पक्षेयमर्थः । दक्षप्रजापतेर्दुहितृभूताः स्वभार्या अश्विन्याद्यास्तारकाः पुनःपुनःपुनर्ददर्श । मां सकृदेव पश्यतीति सकृद्दृष्ट्वा चोज्जिहीते । ताराभिः सहोर्ध्वमेव गच्छति । न मां कूपादुत्तारयति । अत इदमनुचितम् । हे द्यावापृथिव्यौ मदीयमिमं वृत्तांतं जानीतं ॥ अत्र निरुक्तम् । वृकश्चंद्रमा भवति विवृतज्योतिष्को वा विकृतज्योतिष्को वा विक्रांतज्योतिष्को वा । अरुण आरोचनो मासकृन्मासानां चार्द्धमासानां च कर्ता भवति चंद्रमा वृकः पथा यंतं ददर्श नक्षत्रगणमभिजिहीते निचाय्य येन येन योक्ष्यमाणो भवति चंद्रमास्तक्ष्णुवन्निव पृष्ठरोगी (नि ५-२०) इति ॥ सकृत् । एकस्य सकृच्च (पा ५-४-१९) इति क्रियाभ्यावृत्तिगणने निपातितः । वृकः । वृञ् वरणे । सृवृभूशुषिमुषिभ्यः कित् (उ ३-४१) इति कप्रत्ययः । जिहीते । ओहाङ् गतौ । जौहोत्यादिकः । भृञामिदित्यभ्यासस्येत्वम् । निचाय्य । चायृ पूजानिशामनयोः । अत्र दर्शनार्थो धातूनामनेकार्थत्वात् । समासेऽनञ्पूर्वे क्त्वो ल्यप् । पृष्ट्यामयी । स्पृश संस्पर्शने । स्पृश्यतेऽनेनेति स्पृष्टिः । छांदसो वर्णलोपः । पृष्टावामयः पृष्ट्यामयः । तद्वान् पृष्ट्यामयी ॥ १८ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३