मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०८, ऋक् १

संहिता

य इ॑न्द्राग्नी चि॒त्रत॑मो॒ रथो॑ वाम॒भि विश्वा॑नि॒ भुव॑नानि॒ चष्टे॑ ।
तेना या॑तं स॒रथं॑ तस्थि॒वांसाथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥

पदपाठः

यः । इ॒न्द्रा॒ग्नी॒ इति॑ । चि॒त्रऽत॑मः । रथः॑ । वा॒म् । अ॒भि । विश्वा॑नि । भुव॑नानि । चष्टे॑ ।
तेन॑ । आ । या॒त॒म् । स॒ऽरथ॑म् । त॒स्थि॒ऽवांसा॑ । अथ॑ । सोम॑स्य । पि॒ब॒त॒म् । सु॒तस्य॑ ॥

सायणभाष्यम्

य इंद्राग्नी इति त्रयोदशर्चं तृतीयं सूक्तं कुत्सस्यार्षं त्रैष्टुभमैंद्राग्नम् । तथा चानुक्रांतम् । य इंद्राग्नी सप्तोनैंद्राग्नं त्विति । विनियोगो लैंगिकः ॥

हे इंद्राग्नी चित्रतमोऽतिशयेन चायनीयो वा युवयोः संबंधी यो रथो विश्वानि भुवनानि भूतजातान्यभिचष्टे अभिमुख्येन पश्यति । सुवर्णमयत्वात् रत्नखचितत्वाच्च स्वप्रभाभिः कृत्स्नं जगद्भासयतीत्यर्थः । तेन रथेना यातम् । अस्मद्यज्ञमागच्छतम् । तत्किं पर्यायेण । नेत्याह । सरथं समानमेकं रथं तस्थिवांसा युगपदेवास्थितवंतौ युवामागच्छतम् । न पर्यायेणेत्यर्थः । अथागमनानंतरं सुतस्य ऋत्विग्भिरभिषुतं सोमस्य सोमं स्वांशलक्षणं तदेकदेशं वा पिबतं ॥ वां ॥ युष्मदस्मदोः षष्ठीचतुर्थीत्यादिना (पा ८-१-२०) षष्ठीद्विवचनस्य । वामादेशः । सर्वानुदात्तत्वम् । चष्टे । चक्षिङ् व्यक्तायां वाचि । अत्य प्रकाशनार्थः । अदादित्वाच्छपो लुक् । स्कोः संयोगाद्योरिति कलोपः । तास्यनुदात्तेदिति लसार्वधातुकानुदात्तत्वे धातुस्वरः शिष्यते । यद्वृत्तान्नित्यमिति निघातप्रतिषेधः । सरथम् । समानश्चासौ रथश्च सरथः । समानस्य छंदसीति सभावः । परादिश्छंदसि बहुलमित्युत्तरपदाद्युदात्तत्वम् । तस्थिवांसा । ष्ठा गतिनिवृत्तौ । लिटः क्वसुः । द्विर्वचनम् । शर्पूर्वाः खयः । वस्वेकाजाद्घसामितीडागमः । अतो लोप इट चेत्याकारलोपः । सुपां सुलुगित्याकारः । सोमस्य । क्रियाग्रहणं कर्तव्यमिति कर्मणः संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी ॥ १ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६