मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०८, ऋक् २

संहिता

याव॑दि॒दं भुव॑नं॒ विश्व॒मस्त्यु॑रु॒व्यचा॑ वरि॒मता॑ गभी॒रम् ।
तावाँ॑ अ॒यं पात॑वे॒ सोमो॑ अ॒स्त्वर॑मिन्द्राग्नी॒ मन॑से यु॒वभ्या॑म् ॥

पदपाठः

याव॑त् । इ॒दम् । भुव॑नम् । विश्व॑म् । अस्ति॑ । उ॒रु॒ऽव्यचा॑ । व॒रि॒मता॑ । ग॒भी॒रम् ।
तावा॑न् । अ॒यम् । पात॑वे । सोमः॑ । अ॒स्तु॒ । अर॑म् । इ॒न्द्रा॒ग्नी॒ इति॑ । मन॑से । यु॒वऽभ्या॑म् ॥

सायणभाष्यम्

विश्वं सर्वमिदं भुवनं जगद्यावदस्ति यावत्प्रमाणं भवति । कीदृसं उरुव्यचा । विस्तीर्णव्यापनम् । सर्वव्यापकमित्यर्थः । तथा वरिमता वरिम्णोरुत्वेनात्मीयेन गौरवेण गभीरं गांभीर्योपेतम् । हे इंद्राग्नी पातवे युवाभ्यां पातुं सोमस्तावानस्तु । तावत्प्रमाणो भवतु । तथा मनसे युवयोरंतःकरणायारं स सोमः पर्याप्तो भवतु ॥ उरुव्यचा । व्यच व्याजीकरणे । असुन् । व्यचेः कुटादित्वमनसीति वचनात् ङित्त्वाभावेन संप्रसारणाभावः । स्वमोर्नपुंसकात् (पा ७-१-२३) इति सोर्लुकि प्राप्ते सुपां सुलुगिति व्यत्ययेन डादेशः । वरिमता । पृथ्वादिभ्य इमनिज्वेत्युरुशब्दात्तस्य भाव इत्यर्थ इमनिच् । प्रियस्थिरेत्यादिनोरुशब्दस्य वरादेशः । पुनरपि भावप्रत्ययोत्पत्तिश्छांदसी । सुपां सुलुगिति । तृतीयायालुक् । यद्वा । तृतीयायाश्छांदसस्तुडागमः । तावान् । तत्परिमाणमस्य । यत्तदेतेभ्यः परिमाणे वतुप् (पा ५-२-३९) आ सर्वनाम्न इत्यात्वम् । पातवे । पा पाने । तमर्थे सेसेनिति तवेन्प्रत्ययः । नित्त्वादाद्युदात्तत्तृम् । अरम् । वालमूलघ्वलमंगुलीनां वा लो रमापद्यत इति वक्तव्यम् (म ८-२-१८) इति लत्वविकल्पः । युवभ्याम् । व्यत्ययेनात्वाभावे शेषे लोप इति दकारलोपः ॥ २ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६