मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०८, ऋक् ५

संहिता

यानी॑न्द्राग्नी च॒क्रथु॑र्वी॒र्या॑णि॒ यानि॑ रू॒पाण्यु॒त वृष्ण्या॑नि ।
या वां॑ प्र॒त्नानि॑ स॒ख्या शि॒वानि॒ तेभि॒ः सोम॑स्य पिबतं सु॒तस्य॑ ॥

पदपाठः

यानि॑ । इ॒न्द्रा॒ग्नी॒ इति॑ । च॒क्रथुः॑ । वी॒र्या॑णि । यानि॑ । रू॒पाणि॑ । उ॒त । वृष्ण्या॑नि ।
या । वा॒म् । प्र॒त्नानि॑ । स॒ख्या । शि॒वानि॑ । तेभिः॑ । सोम॑स्य । पि॒ब॒त॒म् । सु॒तस्य॑ ॥

सायणभाष्यम्

हे इंद्राग्नी यानि वीर्याणि वृत्रवधादिरूपाणि चक्रथुः कृतवंतौ युवां यानि च रूपाणि निरूप्यमाणानि गवाश्वादीनि भूतजानानि कृतवंतौ । इंद्राग्निभ्यां हि सर्वं जगत्सृज्यते । इंद्रः सूर्यात्मना वृष्टिं सृजत्यग्निश्चाहुतिद्वारा वृष्ट्युत्पादकः । वृष्टेः सकाशात्सर्वे प्राणिन उत्पद्यंते । उतापि च यानि वृष्ण्यानि वृष्णिभवानि वृष्टिप्रदानादिरूपाणि कर्माणि कृतवंतौ । तथा वां युवयोः संबंधीनि प्रत्नानि चिरंतनानि शिवानि शोभनानि या यानि सख्या सखित्वानि संति । तेभिस्तैः सर्वैः सहितौ युवां सुतस्य सोमस्याभिषुतं सोमं पिबतं ॥ सख्या । सख्युर्भावः सख्यं सख्युर्य इति यप्रत्ययः । शेश्छंदसि बहुलमिति शेर्लोपः । तेभिः । बहुलं छंदसीति भिस ऐसभावः । सावेकाच इति प्राप्तस्य विभक्त्युदात्तत्वस्य न गोश्वन्साववर्णेति प्रतिषेधः ॥ ५ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६