मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०८, ऋक् ६

संहिता

यदब्र॑वं प्रथ॒मं वां॑ वृणा॒नो॒३॒॑ऽयं सोमो॒ असु॑रैर्नो वि॒हव्य॑ः ।
तां स॒त्यां श्र॒द्धाम॒भ्या हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥

पदपाठः

यत् । अब्र॑वम् । प्र॒थ॒मम् । वा॒म् । वृ॒णा॒नः । अ॒यम् । सोमः॑ । असु॑रैः । नः॒ । वि॒ऽहव्यः॑ ।
ताम् । स॒त्याम् । श्र॒द्धाम् । अ॒भि । आ । हि । या॒तम् । अथ॑ । सोम॑स्य । पि॒ब॒त॒म् । सु॒तस्य॑ ॥

सायणभाष्यम्

हे इंद्राग्नी प्रथमं कर्मोपक्रम एव वां युवां वृणानः संभजमानो यदब्रवं सोमेन प्रीणयिष्यामीति यदवोचं सत्यां यथार्थां तां श्रद्धां श्रद्धयादरातिशयेन कृतामुक्तिमभ्यभिलक्ष्याहि यातम् । आगच्छतमेव नोदासाथा । अथागमनानंतरमभिषुतं सोमं पिबतम् । तथा सुरैर्हविषां प्रक्षेपकैर्ऋत्विग्भिरयं नोऽस्माकं सोमो विहव्यो विशेषेण होतव्यो भवति । इतरथा व्यर्थः स्यात् । तस्मादिंद्राग्नी आगच्छतमित्यर्थः ॥ वृणानः । वृञ् संभक्तौ । लटः शानच् । श्नाभ्यस्तयोरात इत्याकारलोपः । असुरैः । असु क्षेपणे । असेरुरन् (उ १-४३) इत्युरन्प्रत्ययः । विहव्यः । हुदानादनयोः । अचो यत् । गुणः । धातोस्तन्निमित्तस्यैवेत्यवादेशः । यतोऽनाव इत्याद्युदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वं ॥ ६ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७