मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०८, ऋक् ७

संहिता

यदि॑न्द्राग्नी॒ मद॑थ॒ः स्वे दु॑रो॒णे यद्ब्र॒ह्मणि॒ राज॑नि वा यजत्रा ।
अत॒ः परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥

पदपाठः

यत् । इ॒न्द्रा॒ग्नी॒ इति॑ । मद॑थः । स्वे । दु॒रो॒णे । यत् । ब्र॒ह्मणि॑ । राज॑नि । वा॒ । य॒ज॒त्रा॒ ।
अतः॑ । परि॑ । वृ॒ष॒णौ॒ । आ । हि । या॒तम् । अथ॑ । सोम॑स्य । पि॒ब॒त॒म् । सु॒तस्य॑ ॥

सायणभाष्यम्

यजत्रा यष्वव्यौ हे इंद्राग्नी स्वे दुरोणे स्वकीये गृहे निवासस्थाने यद्यदि मदथः हृष्यथः । यद्यदि वा ब्रह्मणि ब्राह्मणेऽन्यस्मिन्यजमाने हविःस्वीकरणायागत्य हृष्यथः । यदि वा राजनि क्षत्रिये युद्धे सहाय्यं कर्तुमागत्य हृष्यथः । अतः परि परितोऽस्मात्सर्वस्मात्स्थानात् हे वृषणौ कामानां वर्षिताराविंद्राग्नी आ यातं हि । आगच्छतमेव । औदासीन्यं मा कार्ष्वम् । अन्यत्पूर्ववत् ॥ मदथः । मदी हर्षे । व्यत्ययेन शप् । यजत्रा । अमिनक्षीत्यादिना यजतेः कर्मण्यत्रन् । सुपां सुलुगिति विभक्तेराकारः ॥ ७ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७