मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०८, ऋक् ९

संहिता

यदि॑न्द्राग्नी अव॒मस्यां॑ पृथि॒व्यां म॑ध्य॒मस्यां॑ पर॒मस्या॑मु॒त स्थः ।
अत॒ः परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥

पदपाठः

यत् । इ॒न्द्रा॒ग्नी॒ इति॑ । अ॒व॒मस्या॑म् । पृ॒थि॒व्याम् । म॒ध्य॒मस्या॑म् । प॒र॒मस्या॑म् । उ॒त । स्थः ।
अतः॑ । परि॑ । वृ॒ष॒णौ॒ । आ । हि । या॒तम् । अथ॑ । सोम॑स्य । पि॒ब॒त॒म् । सु॒तस्य॑ ॥

सायणभाष्यम्

हे इंद्राग्नी अवमस्यां पृथिव्यां सन्निकृष्टायामस्यां भूम्यां यद्यदि स्थः । वर्तमानौ भवथः । यदि वा मध्यमस्यां पृथिव्यामंतरिक्षलोके । अत्र पृथिवीशब्दस्त्रिष्वपि लोकेषु वर्तते । यथा यो द्वितीयस्यां तृतीयस्यां पृथिव्यामस्यायुषा नाम्ने ति । उतापि च परमस्यामुत्कृष्टायां दूरे वर्तमानायां पृथिव्यां द्युलोके यदि वा वर्तेथे । अतः सर्वस्मात्स्थानात् हे वृषणावागच्छतम् । आगमानंतरं सुतं सोमं पिबतं ॥ अवमस्याम् । अवमशब्दादुत्तरस्य ङीर्व्यत्ययेन स्याडागमः । एवमुत्तरत्रापि ॥ ९ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७