मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०८, ऋक् ११

संहिता

यदि॑न्द्राग्नी दि॒वि ष्ठो यत्पृ॑थि॒व्यां यत्पर्व॑ते॒ष्वोष॑धीष्व॒प्सु ।
अत॒ः परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥

पदपाठः

यत् । इ॒न्द्रा॒ग्नी॒ इति॑ । दि॒वि । स्थः । यत् । पृ॒थि॒व्याम् । यत् । पर्व॑तेषु । ओष॑धीषु । अ॒प्ऽसु ।
अतः॑ । परि॑ । वृ॒ष॒णौ॒ । आ । हि । या॒तम् । अथ॑ । सोम॑स्य । पि॒ब॒त॒म् । सु॒तस्य॑ ॥

सायणभाष्यम्

हे इंद्राग्नी दिवि द्युलोके यद्यदि स्थः भवथः । यदि वा पृथिव्यां भूलोके यदि वा पर्वतेषु मेर्वादिषु मेघेषु वा । तथा ओषधीषु तिलमाषव्रीह्यादिष्वप्सूदकेषु चानुग्राहकतयायदि वा स्थः । हे कामाभिवर्षकौ युवामतः सर्वस्मात्स्थानादागच्छतम् । आगत्य चाभिषुतं सोमं पिबतं ॥ पृथिव्याम् । उदात्तयण इति विभक्तेरुदात्तत्वम् । ओषधीषु । ओषः पाक आसु धीयत इति ओषधयः । कर्मण्यधिकरणे चेति किप्रत्ययः । दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् । तच्च घञंतमाद्युदात्तम् । ओषधेश्च विभक्तावप्रथमायामिति दीर्घः ॥ ११ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७