मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०८, ऋक् १२

संहिता

यदि॑न्द्राग्नी॒ उदि॑ता॒ सूर्य॑स्य॒ मध्ये॑ दि॒वः स्व॒धया॑ मा॒दये॑थे ।
अत॒ः परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥

पदपाठः

यत् । इ॒न्द्रा॒ग्नी॒ इति॑ । उत्ऽइ॑ता । सूर्य॑स्य । मध्ये॑ । दि॒वः । स्व॒धया॑ । मा॒दये॑थे॒ इति॑ ।
अतः॑ । परि॑ । वृ॒ष॒णौ॒ । आ । हि । या॒तम् । अथ॑ । सोम॑स्य । पि॒ब॒त॒म् । सु॒तस्य॑ ॥

सायणभाष्यम्

हे इंद्राग्नी उदिता उदितस्योदयं प्राप्तस्य सूर्यस्यादित्यस्य संबंधिनो दिवो द्योतमानस्यांतरिक्षस्य मध्ये मध्यभागे स्वधयात्मीयेन तेजसा हविर्लक्षणेनान्नेन वा यद्यस्मात्कारणान्मादयेथे तृप्तौ भवथः । तस्मात्कारणादतः सर्वस्मादंतरिक्षभागात् हे कामाभिवर्षकाविंद्राग्नी आगच्छतम् । आगमनानंतरमभिषुतं सोमं पिबतं ॥ उदिता । सुपां सुलुगिति षष्ठ्या डादेशः । दिवः । ऊडिदमिति विभक्तेरुदात्तत्वम् । मादयेथे । मद तृप्तियोगे । चुरादिरात्मनेपदी ॥ १२ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७