मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०९, ऋक् १

संहिता

वि ह्यख्यं॒ मन॑सा॒ वस्य॑ इ॒च्छन्निन्द्रा॑ग्नी ज्ञा॒स उ॒त वा॑ सजा॒तान् ।
नान्या यु॒वत्प्रम॑तिरस्ति॒ मह्यं॒ स वां॒ धियं॑ वाज॒यन्ती॑मतक्षम् ॥

पदपाठः

वि । हि । अख्य॑म् । मन॑सा । वस्यः॑ । इ॒च्छन् । इन्द्रा॑ग्नी॒ इति॑ । ज्ञा॒सः । उ॒त । वा॒ । स॒ऽजा॒तान् ।
न । अ॒न्या । यु॒वत् । प्रऽम॑तिः । अ॒स्ति॒ । मह्य॑म् । सः । वा॒म् । धिय॑म् । वा॒ज॒ऽयन्ती॑म् । अ॒त॒क्ष॒म् ॥

सायणभाष्यम्

हे इंद्राग्नी वस्यः प्रशस्तं धनमिच्छन् कामयमानोऽहं ज्ञासो ज्ञातीन् उत वापि वा सजातान् । समानजन्मानो ज्ञातिव्यतिरिक्ता बांधवा तांश्च मनसा बुद्ध्यावि ह्यख्यम् । युवामेव ज्ञातिरूपेण बंधुरूपेण च व्यज्ञासिषम् । ते हि धनस्य दातारो भवंति । अपि च युवद्युवाभ्यामन्यान्येन केनचिन्मह्यं दत्ता प्रमतिः प्रकृष्टा बुद्धिर्नास्ति । मदीया यैषा प्रकृष्टा बुद्धिः सा युवाभ्यामेव दत्ता । स तादृश्या बुद्ध्या युक्तोऽहं वां युवयोः संबंधिनीं वाजयंतीमन्नमस्मभ्यमिच्छंतीं धियं ध्यानेन निष्पन्नां स्तुतिमतक्षम् । अकार्षं ॥ अख्यं लुङ्यस्यतिवक्तिख्यातिभ्योऽङिति च्लेरङादेशः । वस्यः । वसुशब्दादीयसुन् । टीरिति टलोपः । छांदस ईकारलोपः । ज्ञासः । सुखदुःखादिकं साम्येन जानंतीति ज्ञासो ज्ञातयः । ज्ञा अवबोधने । औणादिकोऽसुन् । व्यत्ययेन विभक्तेरुदात्तत्वम् । युवत् । सुपां सुलुगिति विभक्तेर्लुक् । द्व्यर्थाभिधायकत्वाद्युवावौ द्विवचने (पा ७-२-९२) इति युष्मदो मपर्यंतस्य युवादेशः ॥ १ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८