मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०९, ऋक् २

संहिता

अश्र॑वं॒ हि भू॑रि॒दाव॑त्तरा वां॒ विजा॑मातुरु॒त वा॑ घा स्या॒लात् ।
अथा॒ सोम॑स्य॒ प्रय॑ती यु॒वभ्या॒मिन्द्रा॑ग्नी॒ स्तोमं॑ जनयामि॒ नव्य॑म् ॥

पदपाठः

अश्र॑वम् । हि । भू॒रि॒दाव॑त्ऽतरा । वा॒म् । विऽजा॑मातुः । उ॒त । वा॒ । घ॒ । स्या॒लात् ।
अथ॑ । सोम॑स्य । प्रऽय॑ती । यु॒वऽभ्या॑म् । इन्द्रा॑ग्नी॒ इति॑ । स्तोम॑म् । ज॒न॒या॒मि॒ । नव्य॑म् ॥

सायणभाष्यम्

हे इंद्राग्नी वां युवां भूरिदावत्तरातिशयेन बहुधनस्य दातारावित्यश्रम हि । अश्रौषं खलु । कस्मात्पुरुषात् । विजामातुः । श्रुताभिरूप्यादिभिर्गुणैर्विहीनो जामाता यथा कन्यावते बहु धनं प्रयच्छति कन्यालाभार्थं ततोऽप्यतिशयेन दाताराविंद्राग्नी इत्यर्थः । उत वापि च स्यालात् । स्यं शूर्पं । तस्माल्लाजानावपति विवाहकाल इति स्यालः कन्याभ्राता । स यथा भगिनीप्रीत्यर्थं बहु धनं प्रयच्छति कन्यालाभार्थं ततोऽप्यतिशयेन दाताराविंद्राग्नी इत्यर्थः । उत वापि च स्यालात् । स्यं शूर्पं । तस्माल्लाजानावपति विवाहकाल इति स्यालः कन्याभ्राता । स यथा भगिनीप्रीत्यर्थं बहु धनं प्रयच्छति ततोऽप्यतिशयेन दाताराविंद्राग्नी । घेति पादपूरणः । तथा च सत्यथानंतरं हे इंद्राग्नी युवाभ्यां सोमस्य प्रयती अभिषुतस्य सोमस्य प्रदानेन सह नव्यं नवतरं प्रत्यग्रं स्तोमं स्तोत्रं जनयामि । निष्पादयामि । अत्र निरुक्तं । अश्रौषं हि बहुदात्ततरौ वां विजामातुरसुसमाप्ताज्जामातुः । विजामातेति शश्वद्दाक्षिणाजाः क्रीतापतिमाचक्षतेऽसुसमाप्त इव वरोऽभिप्रेतो जामाता जा अपत्यं तन्निर्माता । उत वा घा स्यालादपि च स्यालात् स्याल आसन्नः संयोगेनेति नैदानाः । स्याल्लाजानावपतीति वा । लाजा लाजतेः स्यं शूर्पं स्यतेः । शूर्पमशनपवनं शृणातेः । शम्नातेर्वा । अथ सोमस्य प्रदानेन युवाध्यामिंद्राग्नी स्तोमं जनयामि नव्यं नवतरं । सि ६-९ इति ॥ अश्रवं । श्रु श्रवणे । लङ्युत्तमपुरुषैकवचने बहुलं छंदसीति विकरणस्य लुक् । भूरिदावत्तरा । डुदाञ् दाने । आतो मनिन्निति वनिप् । अतिशयेन भूरिदावा भूरिदावत्तरः । भूरिदाव्नस्तुड्वक्तव्यः । पा ८-२-१७-२ । इति तरपस्तुट् । पद संज्ञायां नलोपः । सुपां सुलुगिति विभक्तेराकारः । घः । ऋचि तुनुघेत्यादिना संहितायां दीर्घत्वं । अथ । निपातस्य चेति । प्रयती । यम उपरमे । क्तिन्यनुदात्तोपदेशेत्यादिनानुनासिकलोपः । तादौ चेति गतेः प्रकृतिस्वरत्वं । युवभ्यां । सर्वे विधयश्छंदसि विकल्प्यंत इति युष्मदस्मदोरनादेश इत्यात्वाभावः । शेषे लोप इति दकारलोपः ॥ २ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८