मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०९, ऋक् ४

संहिता

यु॒वाभ्यां॑ दे॒वी धि॒षणा॒ मदा॒येन्द्रा॑ग्नी॒ सोम॑मुश॒ती सु॑नोति ।
ताव॑श्विना भद्रहस्ता सुपाणी॒ आ धा॑वतं॒ मधु॑ना पृ॒ङ्क्तम॒प्सु ॥

पदपाठः

यु॒वाभ्या॑म् । दे॒वी । धि॒षणा॑ । मदा॑य । इन्द्रा॑ग्नी॒ इति॑ । सोम॑म् । उ॒श॒ती । सु॒नो॒ति॒ ।
तौ । अ॒श्वि॒ना॒ । भ॒द्र॒ऽह॒स्ता॒ । सु॒पा॒णी॒ इति॑ सुऽपाणी । आ । धा॒व॒त॒म् । मधु॑ना । पृ॒ङ्क्तम् । अ॒प्ऽसु ॥

सायणभाष्यम्

हे इंद्राग्नी युवाभ्यां मदाय युवयोर्हर्षाय देवी द्योतमानोशती युवां कामयमाना दिषणा मंत्ररूपा वाक् सोममभिषुणोति । यद्वा । धिषणाधिषवणचर्म । द्योतमानं तद्युवयोर्मदं कामयमानं सत्सोममभिषुणोति । ग्रावभिः स्वस्मिन्नभिषवात्तस्याभिषवकर्तृत्वम् । अश्विनाश्ववंतौ भद्रहस्ता शोभनदोर्दंडौ सुपाणी । मणिबंधादूर्द्द्वभागः पाणि । शोभनपाणी एवंभूतौ हे इंद्राग्नी तौ युवामा धावतम् । शीघ्रमागच्छतम् । अगत्य चाप्सूदकेषु वर्तमानेन मधुना माधुर्योपेतेन सारांशेन पृंक्तम् । अस्मदीयं सोमं संयोजयतम् । यद्वा । अप्सु वसतीवरीषु मधुना माधुर्यं संयोजयतम् । विभक्तिव्यत्ययः ॥ युवाभ्याम् । षष्ठ्यर्थे चतुर्थी । उशती । वश कांतौ । अदादित्वाच्छपो लुक् । ग्रहिज्यादिना संप्रसारणम् । उगितश्चेति ङीप् । शतुरनुम इति नद्या उदात्तत्वम् । पृंक्तम् । पृची संपर्के । रौधादिकः । लोट थसस्तम् । श्नसोरल्लोपः । अनुस्वारपरसवर्णौ । न चाचः परस्मिन्नित्यल्लोपस्य स्धानिवत्त्वं न पदांतेत्यादिना निषेधात् ॥ ४ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८