मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०९, ऋक् ७

संहिता

आ भ॑रतं॒ शिक्ष॑तं वज्रबाहू अ॒स्माँ इ॑न्द्राग्नी अवतं॒ शची॑भिः ।
इ॒मे नु ते र॒श्मय॒ः सूर्य॑स्य॒ येभि॑ः सपि॒त्वं पि॒तरो॑ न॒ आस॑न् ॥

पदपाठः

आ । भ॒र॒त॒म् । शिक्ष॑तम् । व॒ज्र॒बा॒हू॒ इति॑ वज्रऽबाहू । अ॒स्मान् । इ॒न्द्रा॒ग्नी॒ इति॑ । अ॒व॒त॒म् । शची॑भिः ।
इ॒मे । नु । ते । र॒श्मयः॑ । सूर्य॑स्य । येभिः॑ । स॒ऽपि॒त्वम् । पि॒तरः॑ । नः॒ । आस॑न् ॥

सायणभाष्यम्

पूर्वोक्त एव पशावा भरतमित्येषा पुरोडाशस्यानुवाक्या । सूत्रितं च । आ भरतं शिक्षतं वज्रबाहू उभा वामिंद्राग्नी आहुवध्यै ॥ आ ३-७ । इति ॥

हे वज्रबाहू वज्रहस्ताविंद्राग्नी अ भरतम् । अस्मदर्थं धनमाहरतम् । आहृत्य च शिक्षतम् । अस्मभ्यं दत्तम् । शिक्षतिर्दानकर्मा । अपि चास्माननुष्ठातॄन् शचीभिः । कर्मनामैतत् । आत्मीयैः कर्मभिरवतम् । रक्षतम् । किं च सूर्यात्मन इंद्रस्य येभी रश्मिभिर्यैरर्चिभिर्नोऽस्माकं पितरः पूर्वपुरुषाः सपित्वं सहस्राप्तव्यं स्थानमासन् ब्रह्मलोकमगच्चन् । अर्चिरादिमार्गेण हि ब्रह्मलोकमुपासका गच्छंति । तथा च श्रूयते । तेऽर्चिषमभिसंभवंत्यर्चिषोऽहरिति । यद्वा । येभी रश्मिभिः सपित्वम् । समवेतत्वमध्यगच्छन् । ते रश्मय इमे नु इदानीमस्माभिर्दृश्यमाना एत एव खलु । सूर्यात्मन इंद्रस्य ये रश्मयस्त एवाग्नेरपि । तथा च श्रूयते । अग्निं वावादित्यः सायं प्रविशति तस्मादग्निर्दूरान्नक्तं ददृशे । तै ब्रा २-१-२-९ । इति । तस्मात्सूर्यस्य रश्मीनां स्तवनेनेंद्राग्न्योरुभयोरपि स्तुतिः सिद्धा ॥ भरतम् । हृग्रहोर्भ इति भत्वम् । शिक्षतम् । शिक्ष विद्योपादाने । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे शपः पित्त्वादनुदात्तत्वम् । धातुस्वरः शिष्यते । तिङः परत्वान्निघाताभावः । सपित्वम् । अप्लृ व्याप्तौ । अस्मात्सशब्दोपपदात्कृत्यार्थे तवैकेनिति त्वन्प्रत्ययः । पृषोदरादित्वाद्धातोः पिभावः । यद्वा । षप समवाये । इन्सर्वधातुभ्य इतीन् । सषेर्भावः सपित्वम् । असन् । अस गतिदीप्त्यादानेषु । लङ्याडागम उदात्तः । यद्वृत्तान्नित्यमिति निघाताभावः ॥ ७ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९