मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२०, ऋक् ६

संहिता

श्रु॒तं गा॑य॒त्रं तक॑वानस्या॒हं चि॒द्धि रि॒रेभा॑श्विना वाम् ।
आक्षी शु॑भस्पती॒ दन् ॥

पदपाठः

श्रु॒तम् । गा॒य॒त्रम् । तक॑वानस्य । अ॒हम् । चि॒त् । हि । रि॒रेभ॑ । अ॒श्वि॒ना॒ । वा॒म् ।
आ । अ॒क्षी इति॑ । शु॒भः॒ । प॒ती॒ इति॑ । दन् ॥

सायणभाष्यम्

हे अश्विनावश्विनौ गायत्रं गातव्यं गायत्रीयुक्तं गायत्रसाम्ना निष्पाद्यं वा स्तोत्रं तकवानस्य स्खलद्गतेरंधस्य ऋज्राश्वस्य संबंधि श्रुतम् । अशृुणुतम् । अहं चिदहमिव वां युवां स हि रिरेभ । स्तुतवान् । किं कुर्वन् हे शुभस्पती शोभनस्य कर्मणः पालयितारौ जलस्य वा स्वामिनौ अक्षी युवाभ्यां दत्ते चक्षुषी आ दन् आददानः । तस्मा इव मह्यमप्यभिमतफलं प्रयच्छतमिति भावः ॥ श्रुतम् । श्रु श्रवणे । लङ् बहुलं छंदसीति विकरणस्य लुक् । तकवानस्य । तक गतौ । अत्र गतिसामान्यवाचिना तद्विशेषो मंदगतिर्लक्ष्यते । औणादिक उप्रत्ययः । भृगवाण इतिवत् प्रक्रियोन्नेया । रिरेभ । रेभृ शब्दे । आक्षी । ई च द्विवचन इत्यक्षिशब्दस्य ईकारांतादेशः स चोदात्तः । शुभस्पती । सुबामंत्रिते परांगवत्स्वर इति षष्ठ्यंतस्य परांगवद्भावा त्पदद्वयसमुदायस्याष्टमिकामंत्रितानुदात्तत्वम् । दन् । आङ् पूर्वाद्ददातेराङोदोऽनास्यविहरणे (पा १-३-२०) इत्यात्मनेपदम् । व्यत्ययेन शतृ । जुहोत्यादित्वात् श्लुः । द्विर्वचनप्रकरणे छंदसि वेति वक्तव्यमिति वचनाद्विर्वचनाभावः । छंदस्युभयथेत्युभयथाश्रयणात् शतुः । सार्वधातुकत्वेन ङित्त्वम् । आर्धधातुतत्वादातो लोप इटि चेत्याकारलोपः ॥ ६ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३