मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२७, ऋक् १

संहिता

अ॒ग्निं होता॑रं मन्ये॒ दास्व॑न्तं॒ वसुं॑ सू॒नुं सह॑सो जा॒तवे॑दसं॒ विप्रं॒ न जा॒तवे॑दसम् ।
य ऊ॒र्ध्वया॑ स्वध्व॒रो दे॒वो दे॒वाच्या॑ कृ॒पा ।
घृ॒तस्य॒ विभ्रा॑ष्टि॒मनु॑ वष्टि शो॒चिषा॒जुह्वा॑नस्य स॒र्पिषः॑ ॥

पदपाठः

अ॒ग्निम् । होता॑रम् । म॒न्ये॒ । दास्व॑न्तम् । वसु॑म् । सू॒नुम् । सह॑सः । जा॒तऽवे॑दसम् । विप्र॑म् । न । जा॒तऽवे॑दसम् ।
यः । ऊ॒र्ध्वया॑ । सु॒ऽअ॒ध्व॒रः । दे॒वः । दे॒वाच्या॑ । कृ॒पा ।
घृ॒तस्य॑ । विऽभ्रा॑ष्टिम् । अनु॑ । व॒ष्टि॒ । शो॒चिषा॑ । आ॒ऽजुह्वा॑नस्य । स॒र्पिषः॑ ॥

सायणभाष्यम्

अग्निं सर्वासांदेवसेनानांअग्रण्यं यज्ञेष्वग्रंनीयमानंवाहोतारं अस्मद्यागंप्रतिदेवानामाहवातारं यद्वा होमनिष्पादकंहोतारंजुहोतेर्होतेत्यौर्णवाभइतियास्कः । अग्निमद्यहोतारमवृणीतेतिश्रुतेः । अग्नि मग्नआवहेतिच अग्नेराह्वातृत्वंप्रसिद्धं अग्निंगोतारंमन्यीवंप्रतिविशेषणंमन्यइतिसंबन्धः यद्वा यागनि- ष्पत्तेरेवापेक्षितत्वादेतदेवविधेयविशेषणम् इतराणिवक्ष्यमाणविशेषणानि स्तुतिपराणि दास्वन्तं अतिशयेनदानवन्तं वसुं सर्वेषां निवासहेतुं सहसः सृनुं बलस्यपुत्रं अग्निः मन्थनकालेबलेन मथ्यमान- उत्पद्यतेइतिपुत्रत्वमुपचर्यते जातवेदसं जातानांवेदितारं जातप्रज्ञं जातबलंवा जातवेदश्शशब्दोया- स्केनबहुधानिरुक्तः अग्नेर्जातवेदस्त्वेद्रुष्टान्तः—विप्रंनजातवेदसं जातविद्यंमेधाविनंब्राह्मणमिव तंय- थाबहुमन्यते तथात्वमपिमन्ये स्तौमीत्यर्थः उक्तगुणविशिष्टोयोदेवः स्वध्वरः शोभनयज्ञवान् यज्ञंस- म्यक् निर्वहन् ऊर्ध्वयाउन्नतयाउत्कृष्टयादेवाच्या देवान्पूजयन्त्यादेवान्प्रत्यक्तयावा कृपकृपया साम- र्थ्यलक्षणया देवान्प्रत्यक्तयाकृपेतियास्कः । तेभ्योहविर्वहनबुद्भ्यायुक्तःसन् आजुह्वानस्यआसमन्ता- द्धूयमानस्यसर्पिषः सरणशीलस्यघृतस्यविलेपनेनदीप्तस्याज्यत्यत्र्यविभ्रष्टिं विशेशेणभ्राजमानं अनु- स्वयमपितदाज्यं शोचिषाज्वालयावष्टिकामयतेस्वीकरोतीत्यर्थः ॥ १ ॥

  • अनुवाकः  १९
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२