मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२७, ऋक् २

संहिता

यजि॑ष्ठं त्वा॒ यज॑माना हुवेम॒ ज्येष्ठ॒मङ्गि॑रसां विप्र॒ मन्म॑भि॒र्विप्रे॑भिः शुक्र॒ मन्म॑भिः ।
परि॑ज्मानमिव॒ द्यां होता॑रं चर्षणी॒नाम् ।
शो॒चिष्के॑शं॒ वृष॑णं॒ यमि॒मा विश॒ः प्राव॑न्तु जू॒तये॒ विशः॑ ॥

पदपाठः

यजि॑ष्ठम् । त्वा॒ । यज॑मानाः । हु॒वे॒म॒ । ज्येष्ठ॑म् । अङ्गि॑रसाम् । वि॒प्र॒ । मन्म॑ऽभिः । विप्रे॑भिः । शु॒क्र॒ । मन्म॑ऽभिः ।
परि॑ज्मानम्ऽइव । द्याम् । होता॑रम् । च॒र्ष॒णी॒नाम् ।
शो॒चिःऽके॑शम् । वृष॑णम् । यम् । इ॒माः । विशः॑ । प्र । अ॒व॒न्तु॒ । जू॒तये॑ । विशः॑ ॥

सायणभाष्यम्

हेविप्रमेधाविन् शिक्र दीप्तज्वालाग्ने यजिष्ठंअतिशयेनयष्टृतमं त्वात्वांयजमानाः वयं यष्टारः हुवे- माअह्वयामः यतोवयंयजमानाः यतश्चत्वंयजिष्ठः अतोहुवेमेत्यभिप्रायः कीदृशंत्वां अंगिरसांअंगिरो- गोत्रोत्प्न्नानांमध्येज्येष्ठंज्यायांसं यद्वा अङ्गिरसां अङ्गाराणांमध्येज्येष्ठंज्वालायुक्तत्वात् अङ्गिरा- अङ्गाराइतियास्कः । येङ्गराआसंस्तेगिरसोभवन्नितिश्रुतेः । केनसाधनेनेति तदुच्यते—मन्मभिः मननसाधनैः विप्रेभिः विशेषेणप्रीणयितृभिः मन्मभिर्मन्त्रैः यद्वा विप्रेभिर्मेधाविभिरृत्विग्भिः मन्म- भिर्मन्त्रैश्चसहितावयमितिसंबन्धः त्वदाह्वानानन्तरंपरिज्मानं परितोगच्छन्तं द्यामिवसूर्यमिव हो- तारंदेवानामाह्वातारं केषामर्थे चर्षणीनां मनुष्यनामैतत् मनुष्याणांयजमानानामर्थे यद्वा चर्षणी- नांपूर्वंमनुष्याणामेवसतां पश्चाद्यागादिसाधनेनदेवत्वमापन्नानांदेवानामाह्वातारं तथा शोचिष्केशं केशवदत्यन्तायतज्वालोपेतं वृषणं वर्षितारंकामानां एवंरूपंत्वांविशः त्वामेवनिविशमानाः इमावि- शः यजमानरूपाःप्रजाः जूतयेस्वर्गाद्यभिमतफलप्राप्तयेप्रावन्तु प्रकर्षेणप्रीणयन्तु तादृशंत्वांहुवेमेतिसं- बन्धः ॥ २ ॥

  • अनुवाकः  १९
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२