मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२७, ऋक् ७

संहिता

द्वि॒ता यदीं॑ की॒स्तासो॑ अ॒भिद्य॑वो नम॒स्यन्त॑ उप॒वोच॑न्त॒ भृग॑वो म॒थ्नन्तो॑ दा॒शा भृग॑वः ।
अ॒ग्निरी॑शे॒ वसू॑नां॒ शुचि॒र्यो ध॒र्णिरे॑षाम् ।
प्रि॒याँ अ॑पि॒धीँर्व॑निषीष्ट॒ मेधि॑र॒ आ व॑निषीष्ट॒ मेधि॑रः ॥

पदपाठः

द्वि॒ता । यत् । ई॒म् । की॒स्तासः॑ । अ॒भिऽद्य॑वः । न॒म॒स्यन्तः॑ । उ॒प॒ऽवोच॑न्त । भृग॑वः । म॒थ्नन्तः॑ । दा॒शा । भृग॑वः ।
अ॒ग्निः । ई॒शे॒ । वसू॑नाम् । शुचिः॑ । यः । ध॒र्णिः । ए॒षा॒म् ।
प्रि॒यान् । अ॒पि॒ऽधीन् । व॒नि॒षी॒ष्ट॒ । मेधि॑रः । आ । व॒नि॒षी॒ष्ट॒ । मेधि॑रः ॥

सायणभाष्यम्

यत् यं द्विता द्विप्रकारंश्रौतस्मार्तभेदेनद्वित्वमापन्नं यद्वा उपलक्षणमेतत् आहवनीयादिरूपेणना- नाविधं यद्वा द्विता द्विविधायऎहिकामुष्मिकफलाय उभयाय विभक्तेराजादेशः ईं इममग्निं कीस्तासः कीर्तनंकुर्वन्तः स्तोतारः पचाद्यचिछान्दसंसत्वं अभिद्यवः अभितोद्योतमानाः नमस्यन्तः नमस्कारो- पलक्षितमुपस्थानंकुर्वन्तोभृगवः भृगुगोत्रोत्पन्नामहर्षयः उपवोचन्त उपेत्यब्रुवन्ति किंकुर्वन्तः दाशा- दानेननिप्रित्तभूतेनहविर्दानार्थंमश्नन्तः अरणीभ्यामग्निमन्थनंकुर्वन्तः तथा भृगवः भ्रष्टारोहविषांपा- पानांवा किंचाग्निः शुचिर्दीप्तः धर्णिः धारणकुशलोऽयमग्निः एषांदीयमानानांवसूनांह विर्लक्षणानांई- शेप्रदातुमितिशेषः किंचायमग्निः मेधिरः मेधोयज्ञः तद्वान् स्वयंयष्टव्यत्वेनप्रधानभूतःसन् प्रियान्स्व- प्रीतिहेतून् आज्यादीन् अपिधीन् पर्याप्तिपर्यन्तंदत्तान् वनिषीष्टसंभक्तवान् संभजतांवा तथा मेधिरः मेधावान् असौआवनिषीष्ट अन्यदेवताकेष्वपियज्ञेषुस्वयमाज्यभागप्रयाजादिरूपंहविः संभजते ॥ ७ ॥

  • अनुवाकः  १९
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३