मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२८, ऋक् १

संहिता

अ॒यं जा॑यत॒ मनु॑षो॒ धरी॑मणि॒ होता॒ यजि॑ष्ठ उ॒शिजा॒मनु॑ व्र॒तम॒ग्निः स्वमनु॑ व्र॒तम् ।
वि॒श्वश्रु॑ष्टिः सखीय॒ते र॒यिरि॑व श्रवस्य॒ते ।
अद॑ब्धो॒ होता॒ नि ष॑ददि॒ळस्प॒दे परि॑वीत इ॒ळस्प॒दे ॥

पदपाठः

अ॒यम् । जा॒य॒त॒ । मनु॑षः । धरी॑मणि । होता॑ । यजि॑ष्ठः । उ॒शिजा॑म् । अनु॑ । व्र॒तम् । अ॒ग्निः । स्वम् । अनु॑ । व्र॒तम् ।
वि॒श्वऽश्रु॑ष्टिः । स॒खि॒ऽय॒ते । र॒यिःऽइ॑व । श्र॒व॒स्य॒ते ।
अद॑ब्धः । होता॑ । नि । स॒द॒त् । इ॒ळः । प॒दे । परि॑ऽवीतः । इ॒ळः । प॒दे ॥

सायणभाष्यम्

अयमग्निर्मनुषोमनुष्यस्य अध्वर्योः सकाशात् धरीमणि अतिशयेनधारके अरणिद्वये जायत अर- णिमन्थनेनोत्पन्नः कीदृशोयंहोता देवानामाह्वाता यजिष्ठः अतिशयेनयष्टृतमः किमर्थमुत्पन्नइतिचेत् उशिजांफलस्यकामयितॄणां यजमानानां व्रतंसोमयागादिरूपंकर्मानुकक्षी कृत्य नकेवलंपरार्थमेव- अपितुस्वार्थमपि स्वंव्रतमनु स्वकीयंहविः स्वीकारादिरूपंकर्मानुलक्ष्यपुनः सएवविशेष्यते विश्वश्रु- ष्टिः विश्वविषयकर्मवान् कस्मैसखीयते सखीत्वमात्मनइच्छते तथाश्रवस्यते अतिप्रसिद्धान्नमात्मन- इच्छते यजमानाय रयिरिवधनस्थानीयोभवति धनंयथासख्यं अन्नसमृद्धिंचसाधयति तद्वदयमग्निर- पितस्मैद्वयंसाधयतीत्यर्थः किंचायमग्निः इछस्पदे इडायाभूम्याः पदे अन्त्यलोपश्छान्दसः धरीमणि सारभूतेस्थानेवेदिरूपे वेदिमाहुःपरमन्तंपृथिव्याइतिश्रुतेः । एतावतीवैपृथिवीर्यावतीवेदिरितिच । पुनस्तदेवविशेष्यते इडस्पदे इडादेवतायामनोः पुत्र्यागोरूपायाःइडोपह्वानमन्त्रप्रतिपादितायाः पदेपादन्यासप्रदेशे इडावैमानवीयज्ञानूकाशिन्यासीदितीडायाः पदेघृतवतिस्वाहेतिचश्रुतेः । निष- दत् निषीदति कीदृशोयमग्निः अदब्धः केनाप्याहिंसितः होता होमनिष्पादकः परिवीतः ऋत्वि- ग्भिः परिधिभिर्वापरितोवेष्टितः एवंभूतःसन् निषदत् ॥ १ ॥

  • अनुवाकः  १९
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४