मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२८, ऋक् ३

संहिता

एवे॑न स॒द्यः पर्ये॑ति॒ पार्थि॑वं मुहु॒र्गी रेतो॑ वृष॒भः कनि॑क्रद॒द्दध॒द्रेत॒ः कनि॑क्रदत् ।
श॒तं चक्षा॑णो अ॒क्षभि॑र्दे॒वो वने॑षु तु॒र्वणि॑ः ।
सदो॒ दधा॑न॒ उप॑रेषु॒ सानु॑ष्व॒ग्निः परे॑षु॒ सानु॑षु ॥

पदपाठः

एवे॑न । स॒द्यः । परि॑ । ए॒ति॒ । पार्थि॑वम् । मु॒हुः॒ऽगीः । रेतः॑ । वृ॒ष॒भः । कनि॑क्रदत् । दध॑त् । रेतः॑ । कनि॑क्रदत् ।
श॒तम् । चक्षा॑णः । अ॒क्षऽभिः॑ । दे॒वः । वने॑षु । तु॒र्वणिः॑ ।
सदः॑ । दधा॑नः । उप॑रेषु । सानु॑षु । अ॒ग्निः । परे॑षु । सानु॑षु ॥

सायणभाष्यम्

अयमग्निः एवेनगमनसाधनेनगमनेनवासद्यः अस्मदाह्वानानन्तरंपार्थिवंपृथिवीसंबन्धिस्थानं वेदिलक्षणमेवपरिपरितः यद्वा आभिमुख्यार्थोवापर्येति गच्छति कीदृशोऽग्निः मुहुर्गीः सर्वदागी- यमानःरेतः रेतःशब्देन तत्कार्यं हवीरूपमन्नमुच्यते तद्वान् मत्वर्थीयोलुप्यते वृषभःकामानां वर्षिता - कनिक्रदत् शब्दयन्पर्येति पुनः सएवविशॆष्यते रेतोदधत् आज्यादिस्वीकारेणअत्यधिकंसामर्थ्यंदधानः कनिक्रदच्छब्दयन्पर्येतीतिशेषः पुनः सएवविशॆष्यते अयमग्निर्देवः वनेषुसंभजनेषु स्तोत्रेषु निमित्त- भूतेषु अक्षभिः अक्षस्थानीयाभिर्ज्वालाभिः शतंचक्षाणः सर्वतः प्रकाशमानः यद्वा ज्वालोत्कर्षेण यजमानेनकृतं शतगुणितंप्रख्यापयन् तथातुर्वणिः शीघ्रगन्ताशत्रूणांहिंसकोवा तुर्वणिस्तूर्णवनिरिति- यास्कः । किंच सानुषुसमुच्छ्रितेषु सानुसमुच्छ्रितंभवतीतियास्कः । तेषुउपरेषु उपरमन्तेएष्वग्नय- इतिउपराधिष्ण्याः यजमानगृहावा तेषुसदोदधानः स्थानंधारयमाणोऽग्निः सद्यःपर्येतीतिपूर्वत्रान्व- यः किमर्थं परेषूत्कृष्टेषुसानुषुसमुच्छ्रितेषुकर्मसुहविष्षुवानिमित्तभूतेषु ॥ ३ ॥

  • अनुवाकः  १९
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४