मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १३०, ऋक् १

संहिता

एन्द्र॑ या॒ह्युप॑ नः परा॒वतो॒ नायमच्छा॑ वि॒दथा॑नीव॒ सत्प॑ति॒रस्तं॒ राजे॑व॒ सत्प॑तिः ।
हवा॑महे त्वा व॒यं प्रय॑स्वन्तः सु॒ते सचा॑ ।
पु॒त्रासो॒ न पि॒तरं॒ वाज॑सातये॒ मंहि॑ष्ठं॒ वाज॑सातये ॥

पदपाठः

आ । इ॒न्द्र॒ । या॒हि॒ । उप॑ । नः॒ । प॒रा॒ऽवतः॑ । न । अ॒यम् । अच्छ॑ । वि॒दथा॑निऽइव । सत्ऽप॑तिः । अस्त॑म् । राजा॑ऽइव । सत्ऽप॑तिः ।
हवा॑महे । त्वा॒ । व॒यम् । प्रय॑स्वन्तः । सु॒ते । सचा॑ ।
पु॒त्रासः॑ । न । पि॒तर॑म् । वाज॑ऽसातये । मंहि॑ष्ठम् । वाज॑ऽसातये ॥

सायणभाष्यम्

हेइन्द्र परावतः दूरदेशात्स्वर्गलक्षणान्नोऽस्मानुपयाहि अस्मत्समीपंप्रत्यागच्छ तत्रदृष्टान्तः-अयं- नपुरोवर्ती अग्निरभिषुतः सोमोवाप्रस्तुतत्वान्निर्दिश्यते सइवयद्यपि पुरस्तादुपचारान्निषेधार्थीयोन- कारःसर्वत्र तथाप्यत्रौचित्येनोपमार्थीयोगृह्यते यद्वा परावतोन दूरदेशादिव यद्यपि यज्ञेसर्वदासंनि- हितस्तथापि स्वर्गाख्यादृउरदेशादिव अस्मिन्यज्ञे अयमिती विभक्तिव्यत्ययः अमुंदेवयजनदेशं अच्छ- अभिप्राप्तुं आयाहीतिशेषः तत्रदृष्टान्तः—सत्पतिः सतांसर्वदा वर्तमानानामृत्विजां पालकोयजमान- इव पत्यावैश्वर्येइतिपूर्वपदप्रकृतिस्वरत्वं सयथा विदथानि यज्ञगृहाण्यागच्छति तद्वत् त्वमपि यज्ञ- गृहाण्यागच्छ यद्वा सतां नक्षत्राणां पतिश्चन्द्रमाः राजा राजमानःसन्अस्तमिव सयथा स्वधामस्था- नमागच्छति तद्वत् किंच प्रयस्वन्तोहविर्लक्षणान्नवन्तोवयं यजमानाः त्वा त्वां हवामहे आह्वयामः किमर्थं सुते अभिषुतेसोमेनिमित्तभूतेसति कीदृशावयं सचा ऋत्विग्भिःसहिताः सचासहेत्यर्थइति- यास्कः । आह्वाने दृष्टान्तः—पुत्रासः पुत्राः पितरं न पालकंजनकमिव तंयथावाजसातयेअन्नस्यसं- भजनाय आह्वयन्तितथा वयमपित्वांतदर्थमाह्वयामः किंच मंहिष्ठं मंहनीयं त्वां वाजसातये संग्रा- मप्राप्तये तज्जयाय हविःस्वीकारायवाआह्वयामः ॥ १ ॥ षष्ठेहनिमाध्यंदिनसवनेप्रस्थितयाज्यानांपुरस्तादन्याऋचः प्रक्षेपणीयाः तत्रहोतुःपुरस्तात्पिबा- सोममिन्द्रेत्येषा षष्ठस्यप्रातःसवनइतिखण्डेसूत्रितम—पिबासोममिन्द्रसुवानमद्रिभिरिन्द्रायहिद्यौर- सुरोअनम्नतेति ।

  • अनुवाकः  १९
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८