मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १३०, ऋक् २

संहिता

पिबा॒ सोम॑मिन्द्र सुवा॒नमद्रि॑भि॒ः कोशे॑न सि॒क्तम॑व॒तं न वंस॑गस्तातृषा॒णो न वंस॑गः ।
मदा॑य हर्य॒ताय॑ ते तु॒विष्ट॑माय॒ धाय॑से ।
आ त्वा॑ यच्छन्तु ह॒रितो॒ न सूर्य॒महा॒ विश्वे॑व॒ सूर्य॑म् ॥

पदपाठः

पिब॑ । सोम॑म् । इ॒न्द्र॒ । सु॒वा॒नम् । अद्रि॑ऽभिः । कोशे॑न । सि॒क्तम् । अ॒व॒तम् । न । वंस॑गः । त॒तृ॒षा॒णः । न । वंस॑गः ।
मदा॑य । ह॒र्य॒ताय॑ । ते॒ । तु॒विःऽत॑माय । धाय॑से ।
आ । त्वा॒ । य॒च्छ॒न्तु॒ । ह॒रितः॑ । न । सूर्य॑म् । अहा॑ । विश्वा॑ऽइव । सूर्य॑म् ॥

सायणभाष्यम्

हेइन्द्र वंसगः वननीयगमनस्त्वं सोमंपिब द्भ्यचोतस्तिंङइतिदीर्घः कीदृशं तं अद्रिभिरभिषवसा- धनैर्ग्रावभिः सुवानं सूयमानं कर्माणकर्तृप्रत्ययः कोशेनसिक्तं कोशस्थानीयेन दशापवित्रेणशोधितं यद्वा अवतमित्यनेन सहसंबन्धः कोशेन इतिमेघलक्षणोदकेनसिक्तं स्वोचितजलेनपूरितंअवतंन आ- हावलक्षणमवटमिव तं यथा वंसगोवननीयगमनः तृषा शीघ्रगामीवृषभःपिबतितद्वत् किंच ततृषा- णोनवंसगः यथा अत्यन्तं तृषितोवंसगोवननीयगमनः शीघ्रगामीपुरुषः आहावादिकमागत्यपिबति तद्वत् किमर्थंपानमितितत्राह—तेतव मदाय तृप्तये हर्यताय विक्रन्तिहेतवे कान्त्यर्थेवा हर्यगतिका- न्त्योः भृमृदृशीत्यादिनातच् तुविष्टमाय महत्त्वाय प्रवृद्धत्वाय धायसे यदर्थं मदउपजायते तदर्थाय धाञोवहिहाधाञ्भ्यइत्यसुनि णिदित्यनुवृत्तेरातोयुगितियुक् यद्वा तेतव तुविष्टमाय धायसे अतिप्र- भूतायपानायत्वा त्वांआयच्छन्तु आभिमुख्येनगमयन्तु अश्वाइतिशेषः तत्रदृष्टान्तः—हरितोनसूर्यं हरितवर्णविशिष्टाएतन्नामकाअश्वाःसूर्यमिव तंयथा अतित्वरया अभिमतदेशे अभिप्रेरितावहन्ति तद्वत् किंच अहाविश्वा सर्वाण्यहानिसूर्यमिव तंयथातएवप्रतिदिनंवहन्ति तथा अस्मद्यागदिवसेषुप्र- तिदिनमावहन्तु ॥ २ ॥

  • अनुवाकः  १९
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८