मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १३४, ऋक् १

संहिता

आ त्वा॒ जुवो॑ रारहा॒णा अ॒भि प्रयो॒ वायो॒ वह॑न्त्वि॒ह पू॒र्वपी॑तये॒ सोम॑स्य पू॒र्वपी॑तये ।
ऊ॒र्ध्वा ते॒ अनु॑ सू॒नृता॒ मन॑स्तिष्ठतु जान॒ती ।
नि॒युत्व॑ता॒ रथे॒ना या॑हि दा॒वने॒ वायो॑ म॒खस्य॑ दा॒वने॑ ॥

पदपाठः

आ । त्वा॒ । जुवः॑ । र॒र॒हा॒णाः । अ॒भि । प्रयः॑ । वायो॒ इति॑ । वह॑न्तु । इ॒ह । पू॒र्वऽपी॑तये । सोम॑स्य । पू॒र्वऽपी॑तये ।
ऊ॒र्ध्वा । ते॒ । अनु॑ । सू॒नृता॑ । मनः॑ । ति॒ष्ठ॒तु॒ । जा॒न॒ती ।
नि॒युत्व॑ता । रथे॑न । आ । या॒हि॒ । दा॒वने॑ । वायो॒ इति॑ । म॒खस्य॑ । दा॒वने॑ ॥

सायणभाष्यम्

हेवायो त्वात्वांजुवः गमनशीलाः ररहाणाः शीघ्रगामिनः बलवन्तोवा सामर्थ्यान्नियुत्संज्ञकाअ- श्वाः रहिगतौ लिटःकानच् छान्दसोऽनुनासिकलोपः इहअस्मिन्यज्ञेप्रयः हविर्लक्षणमन्नं अभिअभिल- क्ष्यआवहन्तु प्रापयन्तु किमर्थं सोमस्य पूर्वपीतये पूर्ववत्पानाय पुनः किमर्थं पूर्वपीतये इतरदेवेभ्यः पुरापानाय मरुद्बृधादित्वात्पृर्वपदान्तोत्तत्वं किंच हेवायो तेतवसंबन्धिमनः अनुसूनृता प्रियसत्या- त्मिकास्तुतिरूपा अस्मदीयावाक् तिष्ठतु आश्रित्यसर्वदावर्ततां हर्षयत्वित्यर्थः सूनृतेतिवाङ्माम सूनृताब्रह्मेतितन्नामसूक्तत्वात् ऊर्ध्वाउन्नता तथा जानतीतवगुणान् विशेषेणअवगच्छंती सोमपाना- र्थंस्तुत्यर्थंच हेवायो मखस्ययज्ञस्य दावने दातव्यायहविषेतत्स्वीकाराय पुनःकिमर्थं दावनेअस्मभ्यं- अभिमतदानाय उभयत्रददातेःकमंणिभावेचक्रमेणौणादिकोवनिः छान्दसउपधालोपः नियुत्वतार- थेननियुद्भिर्युक्तेनरथेनायाहिआगच्छ ॥ १ ॥

  • अनुवाकः  २०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३