मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १३४, ऋक् ४

संहिता

तुभ्य॑मु॒षास॒ः शुच॑यः परा॒वति॑ भ॒द्रा वस्त्रा॑ तन्वते॒ दंसु॑ र॒श्मिषु॑ चि॒त्रा नव्ये॑षु र॒श्मिषु॑ ।
तुभ्यं॑ धे॒नुः स॑ब॒र्दुघा॒ विश्वा॒ वसू॑नि दोहते ।
अज॑नयो म॒रुतो॑ व॒क्षणा॑भ्यो दि॒व आ व॒क्षणा॑भ्यः ॥

पदपाठः

तुभ्य॑म् । उ॒षसः॑ । शुच॑यः । प॒रा॒ऽवति॑ । भ॒द्रा । वस्त्रा॑ । त॒न्व॒ते॒ । दंऽसु॑ । र॒श्मिषु॑ । चि॒त्रा । नव्ये॑षु । र॒श्मिषु॑ ।
तुभ्य॑म् । धे॒नुः । स॒बः॒ऽदुघा॑ । विश्वा॑ । वसू॑नि । दो॒ह॒ते॒ ।
अज॑नयः । म॒रुतः॑ । व॒क्षणा॑भ्यः । दि॒वः । आ । व॒क्षणा॑भ्यः ॥

सायणभाष्यम्

हेवायो तुभ्यंत्वदर्थं उषासःउषसः पूर्वोक्तरीत्यात्वयाप्रकाशिताः शुचयः शुद्धादीप्तावा परावति अत्यन्तदूरदेशे अन्तरिक्षे दंसुदंसेषु कर्मवत्सु यद्वा गृहनामैतत् अन्त्यलोपश्छान्दसः गृहवदाच्छादकेषु रश्मिषु स्वकीयेषु तैःभद्राभंदनीयानि कल्याणानि वस्राआच्छादनयोग्यानि वस्राणितन्वते विस्तार- यन्ति यद्वा उषसः दंसुयागगृहेषु देवयजनेषु रश्मिषु होमायप्रदीप्ताग्निज्वालावत्सु आगतायतुभ्यंभ- द्रावस्त्रातन्वते अग्निज्वालाएव वस्राणि विस्तारयन्तीत्यर्थः उषःकाले अग्नीनांप्रज्वाल्यमानत्वात् ता- एववस्त्राणीत्युपचर्यते ननुकेवलंसाधारणानिवस्त्राणि नेत्याह—नव्येषुनूतनेषु स्तूयमानेषु णुस्तुतौ अचोयत् वान्तोयिप्रत्ययेइत्यवादेशः यतोनावइत्याद्युदात्तत्वम् रश्मिषुचित्राचित्राणि नानावर्णयु- क्तानि आश्चर्यभूतानितन्वते उषःकाले रश्मीनां नानावर्णत्वादिति भावः अग्निज्वालेतिपक्षे ज्वाला- नांकालीकरालीत्यादिरूपेणनानावर्णत्वाच्चित्रत्वं किंच हेवायो तुभ्यंत्वदर्थं त्वद्यागार्थमेवधेनुः घृता- दिनाप्रीणयित्रीगौःजातावेकवचनं सबर्दुघा सबरित्यमृतनाम तस्यदोग्ध्री दुहःकब् घश्चेतिकप् सती विश्वावसूनि सर्वाणिधनान्याज्यादिरूपाणि दोहतेस्वयमेवदुग्धे प्रीणयतीत्यर्थः कर्मकर्तरि नदुहस्नु- नमामितियगभावश्छान्दसः शपोलुगभावः कस्तत्रविशोषइतिचेत् उच्यते—हेवायो दिवः दीप्ताद- न्तरिक्षात् मरुतः एतन्नामकान् मेघंविशीर्य वृष्ट्युत्पादकान् त्वदंशभूतान्देवान् आ आभिमुख्येन अ- जनयः जनयसि उत्पादयसि किमर्थमितितदुच्यते वक्षणाभ्यः प्रवहणशीलाभ्योऽद्भ्यः वृष्टिलक्षणाभ्यः तथा वक्षणाभ्यः नदीनामैतत् वक्षणाः रुजानाइतितन्नामसुपाठात् तासामर्थाय ॥ ४ ॥

  • अनुवाकः  २०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३