मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १३४, ऋक् ५

संहिता

तुभ्यं॑ शु॒क्रास॒ः शुच॑यस्तुर॒ण्यवो॒ मदे॑षू॒ग्रा इ॑षणन्त भु॒र्वण्य॒पामि॑षन्त भु॒र्वणि॑ ।
त्वां त्सा॒री दस॑मानो॒ भग॑मीट्टे तक्व॒वीये॑ ।
त्वं विश्व॑स्मा॒द्भुव॑नात्पासि॒ धर्म॑णासु॒र्या॑त्पासि॒ धर्म॑णा ॥

पदपाठः

तुभ्य॑म् । शु॒क्रासः॑ । शुच॑यः । तु॒र॒ण्यवः॑ । मदे॑षु । उ॒ग्राः । इ॒ष॒ण॒न्त॒ । भु॒र्वणि॑ । अ॒पाम् । इ॒ष॒न्त॒ । भु॒र्वणि॑ ।
त्वाम् । त्सा॒री । दस॑मानः । भग॑म् । ई॒ट्टे॒ । त॒क्व॒ऽवीये॑ ।
त्वम् । विश्व॑स्मात् । भुव॑नात् । पा॒सि॒ । धर्म॑णा । अ॒सु॒र्या॑त् । पा॒सि॒ । धर्म॑णा ॥

सायणभाष्यम्

हेवायो तुभ्यंत्वदर्थं शुक्रासोदीप्ताः शुचयः शुद्धाः सोमस्यपातारोत्यन्तंशुद्धाभवन्ति किमुवक्तव्यं तेषांशुद्धत्वे तुरण्यवः त्वरणयुक्ताः त्वांप्राप्तुं उग्राः उद्गूर्णतेजसःसोमाःमदेषु तवमदेषुनिमित्तभूतेषु भुर्वणिभरणवति यागे इषणन्त आहवनीयंप्रतिगच्छन्ति इच्छन्तिवा व्यत्ययेनात्मनेपदं शश्नमौद्वौवि- करणौ किंचापांभुर्वणि मेघे इषन्त उदकंइच्छन्त्युत्पादयितुं अग्नौहूयमानस्याहुतेरादित्यद्वारावृष्ट्यु- त्पादकत्वात् यद्वा यजमानास्त्वामुद्दिश्याजुह्वानाः अपांवर्षणमिषन्त इच्छन्ति किंच हेवायो भगं- भजनीयं त्वां त्सारी त्सरणवान् अत्यन्तभीतः दसमानउपक्षीणोयज्ञविघातकैः पयोव्रतादिनियमैर्वा यजमानः तक्ववीये तस्कराणांयज्ञविघातिनां अन्यत्रगमनाय ईट्टे स्तौति ईडस्तुतौ अदादित्वाच्छपो- लुक् यतस्त्वं विश्वस्माद्भुवनात्सर्वस्मात् लोकाद्भूतजाताद्वा लोकत्रयसंबन्धिनोभयात् धर्मणा अ- स्मदीयहविषांधारणेन पासि पालयसि किंच असुर्यात् असुरसंबन्धिनोभयात् विशेषेणपासि धर्मणा अस्मद्धारणेन पोषणेनवायुक्तःसन् यतएवंकरोषि अतः स्तौमीत्यर्थः ॥ ५ ॥

  • अनुवाकः  २०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३