मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १३५, ऋक् २

संहिता

तुभ्या॒यं सोम॒ः परि॑पूतो॒ अद्रि॑भिः स्पा॒र्हा वसा॑न॒ः परि॒ कोश॑मर्षति शु॒क्रा वसा॑नो अर्षति ।
तवा॒यं भा॒ग आ॒युषु॒ सोमो॑ दे॒वेषु॑ हूयते ।
वह॑ वायो नि॒युतो॑ याह्यस्म॒युर्जु॑षा॒णो या॑ह्यस्म॒युः ॥

पदपाठः

तुभ्य॑ । अ॒यम् । सोमः॑ । परि॑ऽपूतः । अद्रि॑ऽभिः । स्पा॒र्हा । वसा॑नः । परि॑ । कोश॑म् । अ॒र्ष॒ति॒ । शु॒क्रा । वसा॑नः । अ॒र्ष॒ति॒ ।
तव॑ । अ॒यम् । भा॒गः । आ॒युषु॑ । सोमः॑ । दे॒वेषु॑ । हू॒य॒ते॒ ।
वह॑ । वा॒यो॒ इति॑ । नि॒ऽयुतः॑ । या॒हि॒ । अ॒स्म॒ऽयुः । जु॒षा॒णः । या॒हि॒ । अ॒स्म॒ऽयुः ॥

सायणभाष्यम्

हेवायो तुभ्यतुभ्यंत्वदर्थं सुपांसुलुगितिचतुर्थ्यालुक् अयंसोमः हूयमानः कोशंकोशस्थानीयंगृहं- अर्षति गच्छति प्राप्नोति कीदृशः सोमः अद्रिभिःपरिपूतः अभिषवसाधनैः अपगतऋजीषत्वेनशो- धितः यद्वा अद्रिभिरभिषुतः दशापवित्रशोधनेनग्रहणेनवाशोधितः तथास्पार्हास्पृहणी यानितेजां- सिवसानः पिधानः किंच शुक्रा निर्मलानिदीप्तानिवा तेजांसिवसानःसोमःअर्षति त्वां प्राप्नोति ऋषी- गतौ व्यत्ययेनशप् हेवायोआयुषुमनुष्येषु यष्टव्यत्वेनस्थितोभागोभजनीयः अयंसोमः तवत्वदर्थंदेवे- षुमध्येहूयते सत्स्वपीतरेषुदेवेषुयतस्तवभागःअतःप्रथमंतुभ्यंहूयतइत्यर्थः किंच हेवायो एवंतंसोमं- अस्मयुः अस्माभिस्तद्वान् मत्वर्थीयोयुः त्वंनियुतोवह नियुत्संज्ञकानश्वान् वहनायप्रापय ततःपरं- याहि दिवंप्रतिगच्छ तथाकुर्वन् अस्मयुः अस्माभिर्युक्तः सन्नस्माननुगृह्णन् अस्मान्कामयमानोवा क्यचिछान्दसेन्त्यलोपेक्याच्छन्दसीत्युः जुषाणाः प्रीयमाणोयाहि गच्छ ॥ २ ॥

  • अनुवाकः  २०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४