मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १३५, ऋक् ३

संहिता

आ नो॑ नि॒युद्भि॑ः श॒तिनी॑भिरध्व॒रं स॑ह॒स्रिणी॑भि॒रुप॑ याहि वी॒तये॒ वायो॑ ह॒व्यानि॑ वी॒तये॑ ।
तवा॒यं भा॒ग ऋ॒त्विय॒ः सर॑श्मि॒ः सूर्ये॒ सचा॑ ।
अ॒ध्व॒र्युभि॒र्भर॑माणा अयंसत॒ वायो॑ शु॒क्रा अ॑यंसत ॥

पदपाठः

आ । नः॒ । नि॒युत्ऽभिः॑ । श॒तिनी॑भिः । अ॒ध्व॒रम् । स॒ह॒स्रिणी॑भिः । उप॑ । या॒हि॒ । वी॒तये॑ । वायो॒ इति॑ । ह॒व्यानि॑ । वी॒तये॑ ।
तव॑ । अ॒यम् । भा॒गः । ऋ॒त्वियः॑ । सऽर॑श्मिः । सूर्ये॑ । सचा॑ ।
अ॒ध्व॒र्युऽभिः॑ । भर॑माणाः । अ॒यं॒स॒त॒ । वायो॒ इति॑ । शु॒क्राः । अ॒यं॒स॒त॒ ॥

सायणभाष्यम्

हेवायो त्वंनःअध्वरं अस्मत्संबन्धिनंयज्ञं शतिनीभिर्नियुद्भिः सहस्रिणीभिश्चताभिः त्वदीयैरश्वै- र्नोस्मद्यज्ञमुपयाहि उपागच्छ किमर्थं वीतये त्वदभिमतकामाय तत्पूतेयेआगत्यच हव्यानिवीतये सोमादिहविर्लक्षणाय अध्वरंहव्यानिचोपलक्ष्यतेषामेव भक्षणाय शतसहस्रैरश्वैरतिशीघ्रमागच्छेत्य- र्थः किंचायंतवभागः भजनीयः सोमः ऋत्वियः प्राप्तकालः प्रदानावसरं प्राप्तः ऋतुशब्देनप्रदानका- लोलक्ष्यते छन्दसिघस् सितिचेतिपदसंज्ञयभसंज्ञायाबाधात् ओर्गुणाभावे यण् किंच सोमः सूर्येउदि- तेसतितस्य रश्मिभिः सचासहसरश्मिर्भवतिसमानदीप्तिर्भवति यद्वा तैः सहितोभवति यतः सूर्ये- उदितेसति रश्मिर्भवति अतः प्राप्तकालइत्यर्थः किंच सोमाः अध्वर्युभिः चमसाध्वर्युभिः तेषांदश- त्वाद्बहुवचनं तैर्भरमाणाः भ्रियमाणाः अयंसत नियताअभवन् किंच हेवायो तेसोमाः शुक्राः अयंसत अत्यन्तदीप्ताउद्यताः अतस्तेषांभक्षणायायाहीत्यर्थः ॥ ३ ॥

  • अनुवाकः  २०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४