मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १३८, ऋक् १

संहिता

प्रप्र॑ पू॒ष्णस्तु॑विजा॒तस्य॑ शस्यते महि॒त्वम॑स्य त॒वसो॒ न त॑न्दते स्तो॒त्रम॑स्य॒ न त॑न्दते ।
अर्चा॑मि सुम्न॒यन्न॒हमन्त्यू॑तिं मयो॒भुव॑म् ।
विश्व॑स्य॒ यो मन॑ आयुयु॒वे म॒खो दे॒व आ॑युयु॒वे म॒खः ॥

पदपाठः

प्रऽप्र॑ । पू॒ष्णः । तु॒वि॒ऽजा॒तस्य॑ । श॒स्य॒ते॒ । म॒हि॒ऽत्वम् । अ॒स्य॒ । त॒वसः॑ । न । त॒न्द॒ते॒ । स्तो॒त्रम् । अ॒स्य॒ । न । त॒न्द॒ते॒ ।
अर्चा॑मि । सु॒म्न॒ऽयन् । अ॒हम् । अन्ति॑ऽऊतिम् । म॒यः॒ऽभुव॑म् ।
विश्व॑स्य । यः । मनः॑ । आ॒ऽयु॒यु॒वे । म॒खः । दे॒वः । आ॒ऽयु॒यु॒वे । म॒खः ॥

सायणभाष्यम्

तुविजातस्यबहुयजमानार्थमुत्पन्नस्यास्यपूष्णः पोषकस्यैतन्नामकस्यदेवस्य तवसोमहित्वं बल- स्यमहत्त्वंप्रशस्यते प्रस्तूतेसर्वैः वीप्सापादपूरणे नतंदते नहिनस्तिकश्चित् तदपि किंचास्यपूष्णः स्तो- त्रंनतन्दते नहिनस्तिनविरमति सर्वोपिजनः एनंस्तौतीत्यर्थः जगत्पोषकत्वादितिभावः अतःकारणा- त् अहं अहमपि यजमानः सुम्नयत् सुखमिच्छन् अर्चामिस्तौमि कीदृशंतं अंत्यूतिं आसन्नरक्षणं कादि- लोपोबहुलमितिकलोपः स्तुत्यनन्तरमेववरप्रदमित्यर्थः मयोभुवंसुखस्योत्पादकं भावयितारंवा यः पूषा मखःयज्ञवान् मत्वर्थोलुप्यते विश्वस्यसर्वस्य स्तोतुः ऋत्विजोमनः आयुयुवे समन्तात् मिश्रयति शीघ्रवरप्रदानादितिभावः किंच देवोदीप्यमानः पूषाइतिशेषः मखः मखंयज्ञंआयुयुवेसंपूर्तिपर्यंतंमि- श्रयति यद्वा विश्वस्यमनोमिश्रयणेयजमाने किमायातमितिचेत् उच्यते—मखः यज्ञनिर्वाहकोयंपूषा- देवः यजमानस्यमनः आयुयुवे समन्तान्मिश्रयति सामर्थ्याद्यजमानस्यमनइतिलभ्यते यौतेश्छान्दसो- लिट् ॥ १ ॥

  • अनुवाकः  २०
  • अष्टकः 
  • अध्यायः 
  • वर्गः