मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १३९, ऋक् २

संहिता

यद्ध॒ त्यन्मि॑त्रावरुणावृ॒तादध्या॑द॒दाथे॒ अनृ॑तं॒ स्वेन॑ म॒न्युना॒ दक्ष॑स्य॒ स्वेन॑ म॒न्युना॑ ।
यु॒वोरि॒त्थाधि॒ सद्म॒स्वप॑श्याम हिर॒ण्यय॑म् ।
धी॒भिश्च॒न मन॑सा॒ स्वेभि॑र॒क्षभि॒ः सोम॑स्य॒ स्वेभि॑र॒क्षभि॑ः ॥

पदपाठः

यत् । ह॒ । त्यत् । मि॒त्रा॒व॒रु॒णौ॒ । ऋ॒तात् । अधि॑ । आ॒द॒दाथे॒ इत्या॑ऽद॒दाथे॑ । अनृ॑तम् । स्वेन॑ । म॒न्युना॑ । दक्ष॑स्य । स्वेन॑ । म॒न्युना॑ ।
यु॒वोः । इ॒त्था । अधि॑ । सद्म॑ऽसु । अप॑श्याम । हि॒र॒ण्यय॑म् ।
धी॒भिः । च॒न । मन॑सा । स्वेभिः॑ । अ॒क्षऽभिः॑ । सोम॑स्य । स्वेभिः॑ । अ॒क्षऽभिः॑ ॥

सायणभाष्यम्

हेमित्रावरुणौऋतात् आदित्यात् त्यत् तदुदकंयद्यस्मात्कारणात् अधिअधिकंआददाथे सर्वतोदद- ददथः हप्रसिद्धं कीदृशमुदकंअनृतंनश्वरंशोषणस्वभावं केनसाधनेनस्वेनमन्युना स्वकीयेनतेजसा अ- होरात्राभिमानिदेवौमित्रावरुणौखलुवृष्टिं मोचयतः अहोरात्रेवाइत्यादिश्रुतिःपूर्वमेवोदाहृता मन्यु- र्विशेष्यते दक्षस्यसमर्थस्य स्वेनमन्युनाआत्मभूतेन मननीयेनसामर्थ्येन किंच हेमित्रावरुणौ युवोः अन्त्यलोपश्छान्दसः युवयोः संबन्धिनं हिरण्ययंहिरण्मयंरूपं ऋत्व्यवास्त्व्यवास्त्वेत्यादौमयटोमश- ब्दलोपोनिपात्यते इत्था इत्थंवक्ष्यमाणप्रकारेण सद्मसुयज्ञसदनेषु अधि अपश्याम पश्येम केनसाधने- नेतितदुच्यते—धीभिः तदुद्देश्यैः कर्मभिर्यज्ञादिरूपैर्मनसाचनत्वदासक्तेनचेतसाच स्वेभिरक्षभिः आ- त्मीयैरनन्यैश्चक्षुरादीन्द्रियैः किंच सोमस्यसोमंस्वेभिरक्षभिः अस्मदीयैरिन्दियैः पश्येमेतिशेषः नासा- द्यपेक्षयाबहुवचनम् ॥ २ ॥ पृष्ठ्यस्यषष्ठेहनिप्रउगशस्त्रे युवांस्तोमेभिरित्याश्विनस्तृचः षष्ठस्येतिखण्डेसूत्रितम्—युवांस्तोमे- भिर्देवयन्तोअश्विनावर्महइन्द्रेति ।

  • अनुवाकः  २०
  • अष्टकः 
  • अध्यायः 
  • वर्गः