मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७९, ऋक् १

संहिता

पू॒र्वीर॒हं श॒रदः॑ शश्रमा॒णा दो॒षा वस्तो॑रु॒षसो॑ ज॒रय॑न्तीः ।
मि॒नाति॒ श्रियं॑ जरि॒मा त॒नूना॒मप्यू॒ नु पत्नी॒र्वृष॑णो जगम्युः ॥

पदपाठः

पू॒र्वीः । अ॒हम् । श॒रदः॑ । श॒श्र॒मा॒णा । दो॒षाः । वस्तोः॑ । उ॒षसः॑ । ज॒रय॑न्तीः ।
मि॒नाति॑ । श्रिय॑म् । ज॒रि॒मा । त॒नूना॑म् । अपि॑ । ऊं॒ इति॑ । नु । पत्नीः॑ । वृष॑णः । ज॒ग॒म्युः॒ ॥

सायणभाष्यम्

लोपामुद्रा आह हेअगस्त्य अहंलोपामुद्रापूर्वीः शरदः पुरातनानसंख्यातान् संवत्सरान् दोषारा- त्रीः वस्तोरहानितथादेहंजरयन्तीरुषसः उषःकालांश्च सर्वत्रात्यन्तसंयोगेद्वितीया अद्यतनकालपर्य- न्तंबहुसंवत्सरंकार्त्स्न्येनत्वच्छुश्रूषयाशश्रमाणाश्रान्ताभूवं इदानींतुजरिमाजरातनूनामङ्गानांश्रियं- सुन्दर्यंमिनातिहिनस्ति एवमपिनानुगृह्ळासीत्यर्थः अप्यूनु अपिः संभावनायांउइत्यवधारणे नुइति- वितर्के इदानीमपिकिंसंभावनीयं लोकेहिपत्नीः स्त्रियः वृषणः सेक्तरःपुरुषाः जगम्युः गच्छेयुः संभो- गंकुर्युं अतोमांकिमित्यवमन्यसे इदानीमपिवासंभावयेत्यर्थः ॥ १ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२