मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७९, ऋक् ५

संहिता

इ॒मं नु सोम॒मन्ति॑तो हृ॒त्सु पी॒तमुप॑ ब्रुवे ।
यत्सी॒माग॑श्चकृ॒मा तत्सु मृ॑ळतु पुलु॒कामो॒ हि मर्त्य॑ः ॥

पदपाठः

इ॒मम् । नु । सोम॑म् । अन्ति॑तः । हृ॒त्ऽसु । पी॒तम् । उप॑ । ब्रु॒वे॒ ।
यत् । सी॒म् । आगः॑ । च॒कृ॒म । तत् । सु । मृ॒ळ॒तु॒ । पु॒लु॒ऽकामः॑ । हि । मर्त्यः॑ ॥

सायणभाष्यम्

अन्तितः समीपेवर्तमानंपीतंपीयमानंहृत्सुहृदयप्रदेशेषुस्थितंइमंसोमंसींसर्वतः नुक्षिप्रंउपब्रुवे उपे- त्यमनसाप्राप्यप्रार्थयते किंब्रवीषि उच्यते यदागः गुर्वोः कामप्रलापः श्रवणविषयंपापंचकृमकृतव- न्तोवयंतत्तस्मादागसः ससोमः सुसम्यक् मृळतुसुखयतु पापजनितदुःखंमाकरोत्वित्यर्थः महत्पापम- नुभुज्यमानंप्रार्थनयाकथंलुप्यतेइत्यतआह—हियस्मान्मर्त्योमनुष्यः पुलुकामोबहुकामनावान् अल्पे- नैवकर्मणाबहुकामानाकलयति यस्मादेवंतस्मात्परिहरेत्यर्थः यद्वा पापमपवर्जनीयतयाप्राप्यतइवे- त्याहपुरुकामोहिखलुमर्त्यः कामहतः सन् कामेननिरुद्धएववर्तते अतस्तयोरुत्सेकोयुक्तः तच्छब्दश्रव- णदोषोपिप्रामादिकोस्माकंप्राप्तोनेनसोमेनपरिहर्तव्यइत्यर्थः यद्वायंमन्त्रः चन्द्रपरोव्याख्येयः मनसो- भिमानित्वाच्चतस्यपापस्यापिमनस्येवसंभावितत्वात् अस्मिन्पक्षेहृत्सुपीतंहृदयस्थितमित्यर्थः शिष्टं- स्पष्टम् ॥ ५ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२