मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८१, ऋक् ७

संहिता

अस॑र्जि वां॒ स्थवि॑रा वेधसा॒ गीर्बा॒ळ्हे अ॑श्विना त्रे॒धा क्षर॑न्ती ।
उप॑स्तुताववतं॒ नाध॑मानं॒ याम॒न्नया॑मञ्छृणुतं॒ हवं॑ मे ॥

पदपाठः

अस॑र्जि । वा॒म् । स्थवि॑रा । वे॒ध॒सा॒ । गीः । बा॒ळ्हे । अ॒श्वि॒ना॒ । त्रे॒धा । क्षर॑न्ती ।
उप॑ऽस्तुतौ । अ॒व॒त॒म् । नाध॑मानम् । याम॑न् । अया॑मन् । शृ॒णु॒त॒म् । हव॑म् । मे॒ ॥

सायणभाष्यम्

हेवेधसा विधातारावश्विनौ वांयुवयोः बाह्ळेदृढेरथैर्येनिमित्तभूतेसति गीःस्तुतिरूपावाक् अस- र्जिसृज्यते कीदृशीसा स्थविरा अत्यन्तंस्थिरा नित्यावेदमयी त्रेधामन्त्रादिभेदेनत्रिप्रकारा क्षरन्ती- युवां गच्छन्ती इदृशीस्तुतिःकृतेत्यर्थः तथाउपस्तुतौसन्तौनधमानं अभिमतफलंयाचमानमवतंरक्षतं तर्पयतंवा किञ्च यामन्नयामन् गमनेअगमनेच मे हवमाह्वानंश्रृणुतम् ॥ ७ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६