उ॒त स्या वां॒ रुश॑तो॒ वप्स॑सो॒ गीस्त्रि॑ब॒र्हिषि॒ सद॑सि पिन्वते॒ नॄन् ।
वृषा॑ वां मे॒घो वृ॑षणा पीपाय॒ गोर्न सेके॒ मनु॑षो दश॒स्यन् ॥
उ॒त । स्या । वा॒म् । रुश॑तः । वप्स॑सः । गीः । त्रि॒ऽब॒र्हिषि॑ । सद॑सि । पि॒न्व॒ते॒ । नॄन् ।
वृषा॑ । वा॒म् । मे॒घः । वृ॒ष॒णा॒ । पी॒पा॒य॒ । गोः । न । सेके॑ । मनु॑षः । द॒श॒स्यन् ॥
हेअश्विनौ वांयुवयोरुशतोदीप्तस्यवप्ससोरूपस्यैववपुषोवाख्यापयित्रीगीः स्तुतिवाक् त्रिबर्हिषि- त्रिधान्वास्तीर्णबर्हिष्केसदसियागसदनेनॄन्कर्मनेतॄन् अस्मान् पिन्वतेआप्याययति आप्याययतुवोचित- प्रदानादिना केनप्रकारेण उच्यते हेवृषणावर्षितारौकामानां वांयुवयोः स्वभूतोमेघः सेक्ताजलदः प्र- दानविशॆषोवा वृषावर्षकःसन् मनुषोमनुष्यान् प्रतिदशस्यन् प्रयच्छन् पीपाय आप्याययति आप्या- यनेदृष्टान्तः—गोर्नसेके उदकसेकइव सान्त्वनान्सेकौदकस्येव तद्यथा आप्याययतितद्वदित्यर्थः यद्वा नेतिसंप्रत्यर्थे गोरुदकस्यसेकेनिमित्तभूतेसतिपीपायेतिसंबन्धः ॥ ८ ॥